________________
कल्प. सुबो
व्या० ६
॥ ९९ ॥
धवलं गोदुग्धसहोदरं नेतुः ॥ १ ॥ इत्यादीन्यपरिमितान्यस्य बाह्याभ्यन्तराणि लक्षणानि केन गणयितुं शक्यानि ? इत्यादि वदन् पुष्पं मणिकनकादिभिः समृद्धिपात्रं विधाय शक्रः स्वस्थानं ययौ, सामुद्रिकोऽपि प्रमुदितः स्वदेशं गतः प्रभुरप्यन्यत्र विजहार ।। (११७) ।
(समणे भगवं महाबीरे ) श्रमणो भगवान् महावीरः (साइरेगाई दुबालस वासाई ) सातिरेकाणि द्वादश वर्षाणि यावत् (निचं बोसकाए ) नित्यं - दीक्षाग्रहणादनु यावज्जीवं व्युत्सृष्टकायः परिकर्मणावर्जनात् ( चित्त देहे ) व्यक्त देहः, परीषहसहनात्, एवंविधः सन् प्रभुः (जे केइ उवसग्गा उप्पज्जंति ) ये केचित् उपसर्गा उत्पद्यन्ते, (तंजहा ) तद्यथा - ( दिव्वा ना ) दिव्याः- देवकृताः ( माणुस्सा वा ) मानुष्याः - मनुष्यकृताः (तिरिक्खजोणिआ वा) तैर्यग्योनिकाः - तिर्यक्कृताः ( अणुलोमा वा ) अनुकूलाः- भोगार्थ प्रार्थनादिकाः ( पडिलोमा वा ) प्रतिकूलाः प्रतिलोमाः-ताडनादिकाः (ते उत्पन्ने सम्मं सहइ ) तान् उत्पन्नान् सम्यक् सहते, भयाभावेन (खमई) क्षमते, क्रोधाभावेन ( तितिवखइ ) तितिक्षते दैन्याकरणेन ( अहियासेइ ) अध्यासयति, निश्चलतया । (११८) । तत्र देवादिकृतोपसर्गसहनं यथा-स्वामी प्रथमचतुर्मासकं मोर कसन्निवेशादागत्य शूलपाणियक्षचैत्ये स्थितः, स च यक्षः पूर्वभवे धनदेववणिजो वृषभ आसीत्, तस्य च नदीं उत्तरतः शकटपञ्चशती पङ्के निमग्ना, तदा च उल्लसितवीर्येण एकेन वृषभेण वामधुरीणेन भूत्वा यदि ममैव खण्डद्वयं विधायोभयोः पार्श्वयोर्योजयति तदाऽहं एक एव सर्वाणि उत्तारयामीति चिन्तयता सर्वाणि शकटानि नियू
उपसर्ग सहतं सू. ११८ शूलपाण्युपसगेः
॥ ९९ ॥