________________
MORRECRUCTURE
पुष्पाय समृद्धिदानं
निवेदिते सोऽप्युवाच-याहि भो ब्राह्मण ! तमेव प्रभु अनुगच्छ, सहि निर्ममः करुणाम्भोधिातीयं अपि 3 अर्द्ध दास्यति, ततस्तदर्द्धद्वयं अहं तथा संयोजयिष्यामि यथा अक्षतस्येव तस्य दीनारलक्ष मूल्यं भविष्यति
तेन च अर्धमधं विभक्तेन द्वयोरप्यावयोर्दारियं यास्यति, इति तत्प्रेरितो विप्रोऽपि पुनः प्रभुपाचमागतो, है लज्जया प्रार्थयितुं अशक्तो वर्ष यावत् पृष्ठे बभ्राम, ततश्च स्वयं पतितं तदर्धे गृहीत्वा जगाम, तदेवं भगवता |
सबस्त्रधर्मप्ररूपणाय साधिकमासाधिकं वर्ष यावद्वस्त्रं स्वीकृतं, सपात्रधर्मस्थापनाय च प्रथमां पारणां पात्रेण कृतवान्, ततः परं तु यावजीवं अचेलकः पाणिपात्रश्चाभूत् । एवं च विहरतो भगवतः कदाचिद् गङ्गातटे सूक्ष्ममृत्तिकाकर्दमप्रतिविम्बितासु पदपंक्तिषु चक्रध्वजांकुशादीनि लक्षणानि निरीक्ष्य पुष्पनामा सामुद्रिकश्चिन्तयामास-यदयं एकाकी कोऽपि चक्रवर्ती गच्छति तद् गत्वाऽस्य सेवां करोमि यथा मम महानुदयो भवतीति त्वरितं पदानुसारेण भगवत्पाश्चमागतो, भगवन्तं निरीक्ष्य दध्यो-अहो मया वृथव महत्ता कष्टन सामुद्रिक अधीतं, यदि ईगलक्षणलक्षितोऽपि श्रमणो भूत्वा व्रतकष्टं समाचरति तदा सामुद्रिकपुस्तकं जले क्षेप्यमेव, इतश्च दत्तोपयोगः शक्रः शीघ्रं तत्रागत्य भगवन्तं अभिवन्द्य पुष्पं उवाच-भो भो सामुद्रिक!.मा विषीद, सत्यमेवैतत्तव शास्त्रं, यदयं अनेन लक्षणेन जगत्रयस्यापि पूज्यः सुरासुराणामपि स्वामी सर्वोत्तमसंपदाश्रयस्तीर्थेश्वरो भविष्यति, किश्च-कायः स्वेदमलामयविवर्जितः श्वासवायुरपि सुरभिः । रुधिरामिषमपि
GALOREA