________________
कल्प.सुबोव्या०६ ॥९८॥
विप्राय व. खदानम् ॥ ९८ ।।
SCIENCREASON
दरिद्रो भगवतो वार्षिकदानावसरे परदेशं गतोऽभूत् , तत्रापि निर्भाग्यत्वात किञ्चिदप्राप्य गृहमागतो भार्यया तार्जतो-रे अभाग्यशेखर! यदा भगवता श्रीवर्धमानेन सुवर्णमेघायितं तदा त्वं परदेशे गतः, अधुना पुनर्निर्धनः समागतो, याहि दूरं, मुखं मा दर्शय, अथवा सांप्रतं अपि तमेव जङ्गमं कल्पतरूं याचस्व यथा तव दारियं हरति, यतः-यैः प्राग्दत्तानि दानानि, पुनातुं हि ते क्षमाः। शुष्कोपि हि नदीमार्गः, खन्यते सलिलार्थिभिः ॥ १॥ इत्यादिवाक्यैर्भार्याप्रेरितो भगवत्पार्श्वमागत्य विज्ञपयामास-प्रभो! त्वं जगदुपकारी | विश्वस्यापि त्वया दारिद्र्य निर्मूलितं, अहं तु निर्भाग्यस्तस्मिन्नवसरेऽत्र नाभूवं, तत्रापि-किं किं न कयं? को | को न पत्थिओ? कह कह न नामिअं सीसं १ । दुब्भरउअरस्स कए किं न कयं न किं कायव्वं ॥१॥ | तथापि भ्रमता मया न किञ्चित् प्राप्तं, ततोऽहं निष्पुण्यो निराश्रयो निर्द्धनस्त्वामेव जगद्वाञ्छितदायकं शरणायोपेतोऽस्मि, तव च विश्वदारिद्यहरस्य मदारिद्यहरणं कियन्मात्र, यतः-संपूरिताशेषमहीतलस्य, पयोधरस्या
द्भुतशक्तिभाजः । किं तुम्बपात्रप्रतिपूरणाय, भवेत् प्रयासस्य कणोऽपि नूनम् ? ॥१॥ एवं च याचमानाय विप्राय करुणापरेण भगवता देवदूष्यवस्त्रस्य अर्दू दत्तं, इदं च ताहगदानदायिनो भगवतो निष्प्रयोजन| स्यापि वस्त्रस्य यदर्द्धदानं तत् भगवत्सन्ततेर्वस्त्रपात्रेषु मूर्छा सूचयति इति केचित् १ प्रथमं विप्रकुलोत्पन्नत्वं | सूचयतीत्यपरे २, ब्राह्मणस्तु तदद्धं गृहीत्वा दशाश्चलकृते तुन्नवायस्यादर्शयत्, विप्रेण तस्याग्रे सकले व्यतिकरे
, किं किं न कृत कस्को न प्रार्थितः .. न नामित शीर्ष । दुभरोदरस्य कृते किं न कृत किं न कर्तव्यम् ॥1॥
CA%ARANA