SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ कल्प.मुबोव्या० ६ ॥ ९७॥ सिद्धार्थ8 स्थापनं षारणके पश्च दिव्यानि G ॥९७ ॥ ROCESCRECORRC | कितुं लग्नः, वृषास्तु रात्रिशेषे स्वयमेव प्रभुपाचं आगताः, गोपोऽपि तत्रागतस्तान् दृष्ट्वा अहो! जानताऽपि अनेन समग्रां रात्रिं अहं भ्रामित इति कोपात् सेल्हकमुत्पाट्य प्रहर्नु धावितः, इतश्च शक्रस्तं वृत्तान्तं अवधिना ज्ञात्वा गोपं शिक्षितवान् । अथ तत्र शक्रः प्रभुं विज्ञपयामास-प्रभो! तवोपसर्गा भूयांसः सन्ति ततो द्वादशवर्षी यावत् वैयावृत्यनिमित्तं तवान्तिके तिष्ठामि, ततः प्रभुरवादीद-देवेन्द्र ! कदाप्येतन्न भूतं न भवति न भविष्यति च यत् कस्यचिद्दवेन्द्रस्य असुरेन्द्रस्य वा साहाय्येन तीर्थङ्कराः केवलज्ञानं उत्पादयन्ति, किन्तु स्वपराक्रमेणैव केवलज्ञानं उत्पादयन्ति; ततः शक्रोऽपि मरणान्तोपसर्गवारणाय प्रभोर्मातृष्वज्ञेयं व्यन्तरं वैयावृत्त्यकरं स्थापयित्वा त्रिदिवं जग्मिवान् । ततः प्रभुः प्रातः कोल्लाकसन्निवेशे बहुलब्राह्मणगृहे मया सपात्रो धर्मः प्रज्ञापनीय इति प्रथमपारणां गृहस्थपात्रे परमान्नेन चकार, तदा च चेलोक्षेपः १ गन्धोदकवृष्टिः २ दुन्दुभिनादः ३ अहो दानमहो दानमित्युद्घोषणा ४ वसुधारावृष्टि ५ श्चेति पश्च दिव्यानि मादुर्भूतानि, एषु वसुधारास्वरूपं चेदं-"अद्धत्तेरस कोडी उक्कोसा तत्थ होइ वसुहारा । अद्धत्तरस लक्खा जहनिआ होइ वसुहारा ॥ १ ॥" ततः प्रभुर्विहरन् मोराकसन्निवेशे दूइज्जन्ततापसाश्रमे गतः, तत्र सिद्धार्थभूपमित्रं कुलपतिः प्रभुं उपस्थितः, प्रभुणापि पूर्वाभ्यासान्मिलनाय बाहू प्रसारितो, तस्य प्रार्थनया च एकां रात्रिं तत्र स्थित्वा | नीरागचित्तोऽपि तस्याग्रहेण तत्र चतुर्मासावस्थानं अङ्गीकृत्य अन्यतो विजहार, अष्टौ मासान् विहृत्य पुनर्व १ अर्धत्रयोदश कोट्य उत्कर्षा तन्त्र भवति वसुधारा । अर्धत्रयोदश लक्षा जपन्यिका भवति वसुधारा ॥ CONTAX
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy