________________
कल्प.सुबोव्या०५| ॥९६॥
त्रिभिस्त्रिभिः शतैर्वासुपूज्यः षट्शत्या शेषाश्च सहस्रेण सह प्रव्रजितास्तथा भगवान् न केनापि सहेत्यतोऽद्वितीयः (मुंडे भवित्ता) द्रव्यतः शिर कूर्चलोचनेन भावतः क्रोधाद्यपनयनेन मुण्डो भूत्वा (अगाराओ अणगारिये पव्वइए) अगारात्-गृहात् निष्क्रम्य अनगारिता-साधुतां प्रवजितः-प्रतिपन्नः ॥ (११६) ॥ तद्विधिश्चायं-एवं पूर्वोक्तप्रकारेण कृतपञ्चमौष्टिकलोचो भगवान् यदा सामायिक उच्चरितुं वाञ्छति तदा शक्रः सकलमपि वादित्रादिकोलाहलं निवारयति, ततः प्रभुः णमो सिद्धाणं' इति कथनपूर्वकं 'करेमि सामाइ सव्वं सावज जोगं पञ्चक्खामी' त्यादि उच्चरति, न तु 'भंते' त्ति भणति, तथाकल्पत्वात्, एवं च चारित्रग्रहणानन्तरमेव भगवत. श्चतुर्थ ज्ञानं उत्पद्यते, ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा स्वं स्वं स्थानं जग्मुः ।।
दीक्षाङ्गी कारः सू०
SORRISOSTANKAS
इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां ||
कल्पसुबोधिकायां पञ्चमः क्षणः समाप्तः । ग्रन्थाग्रम् ६५० । पञ्चानामपि व्याख्यानानां ग्रन्थानम् ॥ ३२२५ ।। श्रीरस्तु = = =
= == =