________________
दीक्षायै
गमनं
सू० ११५
समस्तशोभया (सव्वसंभमेणं)सर्व संम्भ्रमेण-प्रमोदजनितौत्सुक्येन (सव्यसंगमेण)सर्वसङ्गमेन-सर्वस्वजनमेलाप
| केन (सब्वपगएहिं) सर्वप्रकृतिभिः-अष्टादशभिर्नेगमादिभिः नगरवास्तव्यप्रजाभिः (सब्बनाडएहिं) सर्वनाटकैः कल्प.मुबो
| (सव्वतालायरेहिं ) सर्वतालाचरैः (सव्वावरोहेणं) सर्वावरोधेन-सर्वान्तःपुरेण (सव्वपुप्फगधमल्लालंकारविभूव्या० ५||साए) सर्वपुष्पगन्धमाल्यालङ्कारविभूषया प्रतीतया (सब्बतुडियसद्दसण्णिनाएण) सर्वत्रुटितशब्दानां यः शब्दः । ॥९५॥
संनिनादश्च-प्रतिरवस्तेन, सर्वत्वं च स्तोकानां समुदाये स्तोकैरपि स्यात्तत आह-(महया इड्डीए ) महत्या ऋद्ध्या (महया जुईए) महत्या युत्या (महया बलेण) महता बलेन (महया समुदएण) महता समुदयेन (महया वरतुडियजमगसमगप्पवाइएण) महता-उच्चैस्तरेण वरवटितानि-प्रधानवादित्राणि तेषां जमगसमगं समकालं प्रवादनं यत्र एवं विधेन (संखपणवपडहभेरीझल्लरीखरमुहिहुडुक्कदुंदुहिनिग्घोसनाइयरवेण ) शङ्खः प्रतीतः पणवः-मृत्पटहः पदहा-काष्ठपटहः भेरी-ढक्का झल्लरी-प्रतीता खरमुखी काहला हुडकः-त्रिवलितुल्यवाद्यविशेषः दुन्दुभिः-देववायं तेषां निर्घोषः तथा नादितः-प्रतिशब्दः तपेण रवेण-शब्देन युक्तं, एवंरूपया ऋया व्रताय व्रजन्तं भगवन्तं पृष्ठतश्चतुरङ्गसैन्यपरिकलितो ललितच्छत्रचामरविराजितो नन्दिवर्धननृपोऽनुगच्छति । पूर्वोक्ताडम्बरेण युक्तो भगवान् (कुडपुरं नगरं मज्झमझेण) क्षत्रियकुण्डनगरस्य मध्यभागेन (निग्गच्छइ) निर्गच्छति (निग्गच्छित्ता) निर्गत्य (जेणेव नायसंडवणे उज्जाणे ) यत्रैव ज्ञातखण्डवनं इति नामकं उद्यानं अस्ति (जेणेव असोगवरपायवे) पत्रव अशोकनामा वरपादप:-श्रेष्ठवृक्षः (तेणेव उवागच्छड) तत्रैव उपागच्छति ॥ (११५) ।