SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०५ दीक्षाभिषेका सू११३ ॥९३॥ रनागरीनिरीक्ष्यमाणविभवप्रकर्षस्य भगवतः पुरतः प्रथमतो रत्नमयान्यष्टौ मङ्गलानि क्रमेण प्रस्थितानि, तद्यथा-स्वस्तिकः १ श्रीवत्सो २ नन्द्यावर्ती ३ वर्द्धमानकं ४ भद्रासनं ५ कलशो ६ मत्स्ययुग्मं ७ दर्पणश्च ८, ततः क्रमेण पूर्णकलशभृङ्गारचाभराणि ततो महती वैजयन्ती ततश्छत्रं ततो मणिस्वर्णमयं सपादपीठं सिंहासनं ततोऽष्टशतं आरोहरहितानां बरंकुञ्जरतुरगाणां ततस्तावन्तो घण्टापताकाभिरामाः शस्त्रपूर्णा रथाः ततस्तावन्तो वरपुरुषाः, ततः क्रमेण हय १ गज २ रथ ३ पदात्यनीकानि ४, ततो लघुपताकासहस्रपरिमण्डितः | सहस्रयोजनोचो महेन्द्रध्वजः, ततः खद्गग्राहा. कुन्तग्राहाः पीठफलकग्राहाः, ततो हासकारकाः नर्तनकारकाः कान्दर्पिका जयजयशब्दं प्रयुञ्जानाः, तदनन्तरं बहव उग्रा भोगा राजन्याः क्षत्रियास्तलवरा माडम्बिकाः कौटुम्बिकाः श्रेष्ठिनः सार्थवाहाः देवा देव्यश्च स्वामिनः पुरतः प्रस्थिताः, तदनन्तरं (सदेवमणुआसुराए) देवमनुजासुरसहितया स्वर्गमर्त्यपातालवासिन्या (परिसाए) पर्षदा (समणुगम्ममाणत्ति) सम्यग् अनुगम्यमानः (मग्गे) मार्गोयस्य (संखियत्ति) शखिकाः-शङ्कवादकाः (चक्कियत्ति) चाक्रिकाः-चक्रप्रहरणधारिणः (लंगलियत्ति) | लालिका-गलावलम्बितसुवर्णादिमयलाङ्गलाकारधारिणो भद्दविशेषाः (मुहमंगलियत्ति) मुखे प्रियवक्तारः चाटुकारिण इत्यर्थः ( वद्धमाणत्ति) वर्द्धमानाः-स्कन्धारोपितपुरुषाः पुरुषाः (पूसमाणत्ति) पुष्यमाणवा-मागधाः (घंटियगणे) घण्टया चरन्तीति घाण्टिका 'राउलिआ' इति लोके प्रसिद्धाः एतेषां गणैः परिवृतं च भगवन्तं प्रक्रमात् कुलमहत्तरादयः स्वजनाः (ताहिं इहाहिं जाव वग्गूहिं) ताभिरिष्टादिविशेषणविशिष्टाभिर्वाग्भिः
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy