SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ५ ॥ ९२ ॥ (ते काले ) तस्मिन् काले ( तेणं समएणं ) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (जे से हेमंताणं ) योऽसौ शीतकालस्य ( पढमे मासे पढमे पक्खे ) प्रथमो मासः प्रथमः पक्षः ( मग्गसिर बहुले ) मार्गशीर्षमासस्य कृष्णपक्षः ( तस्स णं मग्गमिरबहुलस्म) तस्य मार्गशीर्षबहुलस्य ( दसमीपखेणं) दशमीदिवसे (पाईणगामिणीए छायाए) पूर्वदिग्गामिन्यां छायायां (पोरिसीए अभिनिवार) पौरुयां- पाश्चात्यपौरुण्यां अभिनिर्वृत्तायां जातायां, कथम्भूतायां ? - (पमाणपत्ताए) प्रमाणप्राप्तायां, नतु न्यूनाधिकायां (सुवणं दिवसेणं) सुव्रताख्ये दिवसे ( विजपणं मुहुत्ते) विजयाख्ये मुहूर्त्ते (चंदप्पभाए सिबिआए) चन्द्रप्र भायां पूर्वोक्तायां शिविकायां कृतषष्ठतपाः विशुद्धयमानलेइयाकः पूर्वाभिमुखः सिंहासने निषीदति, शिबि कारूढस्य च प्रभोर्दक्षिणतः कुलमहत्तरिका हंसलक्षणं पटशादकमादाय वामपार्श्वे च प्रभोरम्बधात्री दीक्षोप करणमादाय पृष्ठे चैका वरतरुणी स्फारशृङ्गारा धवलच्छत्रहस्ता ईशानकोणे चैका पूर्णकलशहस्ता अग्निकोणे चैका मणिमयतालवृन्तहस्ता भद्रासने निषीदंति, ततः श्रीनन्दिनृपादिष्टाः पुरुषाः यावत् शिविकामुत्पाटयन्ति तावत् शक्रो दाक्षिणात्यां उपरितनीं बाहां ईशानेन्द्र औत्तराहां उपरितनीं वाहां चमरेन्द्रो दाक्षिणात्यां अधस्तनीं बाहां बलीन्द्र औत्तराहां अधस्तनीं बाहां शेषाश्च भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्राश्चञ्चलकुण्डलाद्याभरणकिरणरमणीयाः पञ्चवर्णपुष्पवृष्टिं कुर्वन्तो दुन्दुभिस्ताडयन्तो यथाऽहं शिविकां उत्पाटयन्ति ततः शक्रेशानौ तां बाहां त्यक्त्वा भगवतश्चामराणि वीजयतः, तदा च भगवति शिविकारूढे प्रस्थिते सति शरदि दीक्षाभिषे कः सू११३ १५ ॥ ९२ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy