SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ SISAARISTIANSANAAN एवं संवच्छरे दिन ॥१॥तथा च कवयः-तत्तद्वार्षिकदानवर्षविरमदारिधदावानला. सद्यः सज्जितवाजिराजिवसनालङ्कारवर्लक्ष्यभाः। सम्प्राप्ताः स्वगृहेऽर्थिनः सशपथं प्रत्याययन्तोऽगना, स्वामिन् ! पिङ्गजनैनिरुद्धहसितैः के यूयमित्युचिरे ॥१॥ एवं च दानं दत्त्वा पुनर्भगवता नन्दिवर्धनः पृष्टः-राजंस्तव सत्कोऽपि अवधिः दिदीक्षाभिषेपूर्णस्तहहं दीक्षां गृह्णामि, सतो मन्दिनापि ध्वजहट्टालङ्कारतोरणादिभिः कुण्डपुरं सुरलोकसमं कृतं, ततो का सू११३ मन्दिराजः शक्रादयश्च कनकमयाम् १ रूप्यमयान् २ मणिमयान् ३ कनकरूप्यमयान ४ कनकमणिमयान् |५ रूप्यमणिमयान् ६ कनकरूप्यमणिमयान् ७ मुन्मयांश्च ८ प्रत्येकं अष्टोत्तरसहस्रं कलशान यावत् अभ्यामपि च सकलां सामग्रीं कारयन्ति, ततोऽच्युतेन्द्राश्चतुःषष्टया सुरेन्द्ररभिषेके कृते सुरकृताः कलशा दिव्यानुभावेन नृपकारितकलशेषु प्रविष्टास्ततस्तेऽत्यन्तं शोभितवन्तः, ततः श्रीनन्दिराजः स्वामिनं पूर्वाभिमुखं निवेश्य सुरानीतक्षीरोदनीरैः सर्वतीर्थमृत्तिकादिभिः सर्वकषायैश्चाभिषेकं करोति, इन्द्राश्च सर्वेऽपि भृङ्गारादर्शादिहस्ता जयजयशब्दं प्रयुञ्जानाः पुरतस्तिष्ठन्ति, ततश्च भगवान् स्लातो गन्धकाषाय्या रूक्षिताङ्गः सुरचन्दनानुलिप्तगात्रः कल्पतरुपुष्पमालामनोहरकण्ठपीठः कनकखचिताश्चलस्वच्छोज्ज्वललक्षमूल्यसदशश्वेतवस्त्रावृतशरीरो हारविराजवक्षःस्थलः केयूरकटकमण्डितभुजः कुण्डलललितगल्लतलः श्रीनन्दिराजकारितां पञ्चाशद्धनुरायतां पञ्चविंशतिधनुर्विस्तीर्णा त्रिंशद्धनुरुच्चा बहुस्तम्भशतसंनिविष्टां मणिकनकविचित्रां दिव्यानुभावतः सुरकृतताहकशिविकामनुप्रविष्टां चन्द्रप्रभाभिधां शिथिकां आरूढो दीक्षाग्रहणार्थ प्रतस्थे, शेषं सूत्रकृत् स्वयं वक्ष्यति ।
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy