________________
संवत्सरदानं सू० ११२
कल्प. सुबो
व्या०५
॥ ९१॥
पलं चाहणं कोर्स कोडागार) एवं सैन्यं वाहन कोशं कोष्ठागारं (चिचा पुरं) त्यक्त्वा नगरं (चिचा अंतेउर) त्यक्त्वा अन्तःपुरं (चिच्चा जणवयं ) त्वक्त्वा जामपदं-देशवासिलोकं (चिच्चा विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइअं) त्यक्त्वा विपुलधनकनकरत्नमणिमौक्तिकशङ्कशिलाप्रवालरक्तरत्नममुखं (संतसारसावइज) सत् सारस्वापतेयं, एतत् सर्व त्यक्त्वा, पुनः किं कृत्वा ? (विच्छडुइचा) विच्छद्य-विशेषेण त्यक्त्वा, पुनः किं कृत्वा ? (विगोवइत्ता) विगोप्य-तदेव गुप्तं सद्दानातिशयात् प्रकटीकृत्येति भावः, अथवा विगोप्य-कुत्सनीयमेतदस्थिरत्वादियुक्त्वा, पुनः किं कृत्वा ? (दाणं दायारेहिं परिभाइत्ता) दीयते इति दानंधनं तत् दायाय-दानार्थं आईन्ति-आगच्छन्तीति दायारा-याचकास्तेभ्यः परिभाज्य-विभागैर्दवा, यद्वा परिभाव्य-आलोच्य, इदं अमुकस्य देयं इदं अमुकस्यैवं विचार्येत्यर्थः, पुनः किं कृत्वा ? (दाणं दाइयाणं परिभाइत्ता) दान-धनं दायिका-गोत्रिकास्तेभ्यः परिभाज्य-विभागशो दत्त्वेत्यर्थः ॥ (११२) अमेन सूत्रेण च | वार्षिकदानं सूचितं, तचैवं-भगवान दीक्षादिवसात् प्राग्वर्षेऽवशिष्यमाणे प्रातःकाले वार्षिक दानं दातुं प्रवत्तते, सूर्योदयादारभ्य कल्पवर्त्तवेलापर्यन्तं अष्टलक्षाधिका एकां कोटिं सौवर्णिकानां प्रतिदिनं ददाति, वृणुत वरं वृणुत वरं इत्युदघोषणापूर्वकं यो यन्मार्गयति तस्मै तद्दीयते, तच्च सर्व देवाः शक्रादेशेन पूरयन्ति, एवं च वर्षेण यद्धनं दत्तं तदुच्यते-तिन्नेव य कोडिसया , अट्ठासीई य हुंति कोडीओ। असीइंच सयसहस्सं
x वीण्येव च कोटिशतानि अष्टाशीतिश्च भवन्ति कोटयः । अशीतिश्च शतसहस्राणि एतत् संवत्सरे दत्तं ॥ १॥