________________
भवण्णवं गोअम ! ते तरन्ति ॥ १ ॥' एवं च कल्पमहिमानं आकर्ण्य तपः पूजाप्रभावनादिधर्मकार्येषु कष्टधनव्ययसाध्येषु आलस्यं न विधेयं, संकलसामग्रीसहितस्यैव तस्य वाञ्छितफलप्रापकत्वात्, यथा बीजं अपि वृष्टिवायुप्रभृतिसामग्रीसद्भावे एव फलनिष्पत्ती समर्थ, नान्यथा, एवं अयं श्रीकल्पोऽपि देवगुरुपूजाप्र भावनासाधर्मिक भक्तिप्रमुख सामग्री सद्भावे एव यथोक्तफलहेतुः, अन्यथा - 'इक्कोऽवि नमुक्कारो जिणवरवसहस्स वद्धमाणस्स । संसारसागराओ तारेइ नरं वा नारिं वा ॥१॥” इति श्रुत्वा किञ्चित्प्रयाससाध्ये कल्पश्रवणेऽपि आलस्यं भवेत् ।
अथ 'पुरुषविश्वासे वचनविश्वास' इति कल्पसूत्रस्य प्रणेता वक्तव्यः, स च चतुद्दशपूर्वविद् युगप्रधानः श्रीभद्रबा हुस्वामी दशाश्रुतस्कन्धस्य अष्टमाध्ययनतया प्रत्याख्यानप्रवादाभिधाननवमपूर्वात् उद्धृत्य कल्पसूत्रं रचितवान, तत्र पूर्वाणि च प्रथमं एकेन हस्तिप्रमाणमषीपुञ्जेन लेख्यं १ द्वितीयं द्वाभ्यां २ तृतीयं चतुर्भिः ४ चतुर्थ अष्टाभिः ८ पञ्चमं षोडशभिः १६ षष्ठं द्वात्रिंशता ३२ सप्तमं चतुःषष्टया ६४ अष्टमं अष्टाविंशत्यधिकशतेन १२८ नवमं षट्पञ्चाशदधिकशतद्वयेन २५६ दशमं द्वादशाधिकैः पश्चभिः शतैः ५१२ एकादशं चतुर्विंशत्यधिकेन सहत्रेण १०२४ द्वादशं अष्टचत्वारिंशदधिकया द्विसहरुया २०४८ त्रयोदशं षण्णवत्यधिकया चतुः सस्रहया ४०९३ चतुर्दशं च अष्टसहरुया द्विनवत्युत्तरशताधिकया ८१९२, सर्वाणि पूर्वाणि षोडशभिः सहस्रैरुत्र्यशीत्यधिकैस्त्रिभिः शतैश्च १६३८३ हस्तिप्रमाणमषीपुत्रैलैख्यानि, तस्मान्महापुरुषप्रणीतत्वेन मान्यो, गम्भीरार्थश्च यतः
१ एकोऽपि नमस्कारो जिनवरवृषभाय वर्द्धमानाय । संसारसागरात् तारयति नरं वा नारीं वा ॥ १ ॥
+