SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो व्या०५ वर्षद्वयावस्थानं लोकान्तिकागमश्च सू. ॥९ ॥ पुनरपि लोकान्तिकैर्देवैर्बोधित इति विशेषो द्योत्यते, लोकान्ते-संसारान्ते भवाः लोकान्तिका, एकावतारत्वात् , अन्यथा ब्रह्मलोकवासिनां तेषां लोकान्तभवत्वं विरुद्धयते, ते च नवविधाः, यदुक्तं-सारस्सय १माइचा २ वण्ही ३ वरुणा य ४ गद्दतोया य ५। तुडिआ ६ अव्वाबाहा ७ अग्गिच्चा ८ चेव रिहा य९॥१॥ एए देवनिकाया भयवं बोहिन्ति जिणवरिंदं तु । सव्वजगज्जीवहियं भय तित्थं पवत्तहि ॥२॥ यद्यपि स्वयम्बुद्धो भगवांस्तदुपदेशं नापेक्षते तथापि तेषां अयं आचारो वर्तते, तदेवाह-(जीयकप्पिएहिं देवेहिं) जीतेम-अवश्यंभावेन कल्प:-आचारो जीतकल्पः सोऽस्ति येषां ते जीतकल्पिकाः एवंविधा ते देवाः, विभक्तिपरावर्तनात् (ताहिं इहाहिं ) ताभिः इष्टाभिः (जाव वग्गूहिं) यावत्शब्दात् 'कंताहिं मणुन्नाहिं।। इत्यादिः पूर्वोक्तः पाठो वाच्या, एवंविधाभिर्वाग्भिः (अणवरयं) निरन्तरं भगवन्तं (अभिनंदमाणा य) अभिनन्दयन्तः-समृद्धिमन्तं आचक्षाणाः (अभिथुव्वमाणा य) अभिष्टुवन्ता-स्तुतिं कुर्वन्तः सन्तः ( एवं वयासी) एवं अवादिषुः ॥ (११०)॥. , सप्ताष्टभवा इति प्रवचनसारोदारे, लोकस्य-ब्रह्मलोकस्य अन्ते-समीपे भवा लौकान्तिका इतिव्युत्पत्तेरौपपातिकादौ दर्शनाच नाय | मेकान्तः, लोकप्रकाशे स्वयमपि तथोक्तं २ सारस्वता आदित्या वयो वरुणाश्च गर्दतोयाश्च । त्रुटिता अन्यायाधा आग्नेयाश्चैव रिष्टाश्च ॥ १॥ एते देवनिकाया भगवन्तं बोधयन्ति जिनवरेन्द्रं तु । सर्व जगजीवहितं भगवन् ! तीर्थ प्रवर्तय ॥ २ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy