________________
वर्षद्वयावस्थानं लोकान्तिकागमश्च सू. ११०
समाप्तप्रतिज्ञश्च, मातापित्रोर्जीवतोः नाहं प्रव्रजिष्यामीति गर्भगृहीतायाः प्रतिज्ञायाः पूरणात्, स व्यतिकरः स्त्वेवं-अष्टाविंशतिवर्षातिक्रमे भगवतो मातापितरौ आवश्यकाभिप्रायेण तुर्य स्वर्ग आचाराङ्गाभिप्रायेण तु अनशनेन अच्युतं गतौ, ततो भगवता ज्येष्ठभ्राता पृष्टः-राजन् ! ममाभिग्रहः सम्पूर्णोऽस्ति ततोऽहं प्रव्रजिध्यामि, ततो नन्दिवर्धनः प्रोवाच-भ्रातः! मम मातापितृविरहदुःखितस्य अनया वार्तया किं क्षते क्षारं क्षिपसि ?, ततो भगवता प्रोक्तं-पिअमाइभाइभइणीभज्जापुत्तत्तणेण सब्वेऽवि । जीवा जाया बहुसो जीवस्स उ एगमेगस्स ॥१॥ ततः कुत्र कुत्र प्रतिबन्धः क्रियते ? इति निशम्य नन्दिवर्धनोऽवोचत्-भ्रातरहं अपि इदं जानामि, किंतु प्राणतोऽपि प्रियस्य तव विरहो मां अतितमा पीडयति, ततो मदुपरोधार्षद्वयं गृहे तिष्ठ, | भगवानपि एवं भवतु, किंतु राजन् ! मदर्थ न कोऽपि आरम्भः कार्यः, प्रासुकाशनपानेनाहं स्थास्यामि इत्यवोचत् , राज्ञापि तथा प्रतिपन्ने समधिकं वर्षदयं वस्त्रालङ्कारविभूषितोऽपि प्रासुकैषणीयाहारः सचितं जलं अपिवन भगवान् गृहे स्थितः, ततः प्रभृति भगवता अचित्तजलेनापि सर्वलानं न कृतं ब्रह्मचर्य च यावज्जीवं पालित, दीक्षोत्सवे तु सच्चित्तोदकेनापि स्नानं कृतं, तथाकल्पत्वात्, एवं भगवन्तं वैरङ्गिक विलोक्य चतुईशस्वमसूचितत्वाचक्रवर्तिधिया सेवमानाः श्रेणिकचण्डप्रद्योतादयो राजकुमाराः स्वं स्वं स्थानं जग्मुः ॥ (-पुणरवि लोअंतिएहिं) पुनरपि इति विशेषद्योतने, एकं तावत् समाप्तप्रतिज्ञः स्वयमेव भगवान् वर्तते,
'x पितृमातृभ्रातृभगिनीभार्यापुत्रत्वेन सर्वेऽपि 1 जीवा जाता बहुशः जीवस्य एकैकस्य ॥ १॥