________________
कल्प. मुषोव्या०५ ॥८९॥
वर्षद्वयावस्थानं लोकान्तिकागमश्च स्। ११० ॥ ८९॥
तद्यथा-अणोजा इति वा प्रियदर्शना इति वा (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महा. वीरस्य (नत्तुई कासवगुत्तेणं) पुत्र्याः पुत्री-दौहित्री काश्यपगोत्रेण (तीसे गं दो नामधिज्जा एवमाहिज्जति) तस्याः द्वे नामधेये एवं आख्यायेते (तंजहा-सेसवई वा जसवई वा) तद्यथा-शेषवती इति वा यशस्वती | इति वा ॥ (१०९)॥
(समणे भगवं महावीरे) श्रमणो भगवान् महावीरः (दक्खे) दक्षः-सकलकलाकुशलः (दक्खपइन्ने) दक्षा-निपुणा प्रतिज्ञा यस्य स तथा, समीचीनां एव प्रतिज्ञां करोति तां च सम्यग् निर्वहतीति भावः (पडि: रूवे) प्रतिरूपः-सुन्दररूपवान् ( आलीणे) आलीनः-सर्वगुणैरालिङ्गितः (भद्दए ) भद्रका-सरलः (विणीए) विनीतो-विनयवान् (नाए) ज्ञातः-प्रख्यातः (नायपुत्ते) ज्ञातः-सिद्धार्थस्तस्य पुत्रः, न केवलं पुत्रमात्रः, किन्तु (नायकुलचंदे) ज्ञातकुले चन्द्र इव (विदेहे) वज्रऋषभनाराचसंहननसमचतुरस्रसंस्थानमनोहरत्वात् विशिष्टो देहो यस्य स विदेहः (विदेहदिन्ने) विदेहदिन्ना-त्रिशला तस्या अपत्यं वैदेहदिन्नः (विदेहजच्चे) विदेहा-त्रिशला तस्यां जाता अर्चा-शरीरं यस्य स तथा (विदेहसूमाले) विदेहशब्देन अत्र गृहवास उच्यते तत्र सुकुमालः, दीक्षायां तु परिषहादिसहने अतिकठोरत्वात् (तीसं वासाई विदेहंसि कडु) त्रिंशदवर्षाणि गृहवासे कृत्वा, त्रिंशद्वर्षाणि गृहस्थभावे स्थित्वेत्यर्थः (अम्मापिऊहिं देवत्तगएहिं) मातापित्रो. देवत्वं गतयोः (गुरुमहत्तरएहिं अन्भणुण्णाए) गुरुमहत्तरैः-नन्दिवर्धनादिभिरभ्यनुज्ञातः (समत्तपइन्ने)