SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ SARKAR खशालाकरणं ॥ एवं बाल्यावस्थानिवृत्तौ संप्राप्तयौवनो भोगसमर्थो भगवान् मातापितृभ्यां शुभ मुहूर्ते सम; रवीरनृपपुत्री यशोदां परिणायितः, तया च सह सुखमनुभवतो भगवतः पुत्री जाता, सापि प्रवरनरपति- श्रीवीरस्य सुतस्य जमाले परिणायिता, तस्या अपि च शेषवती नानी पुत्री, सा च भगवतो 'नत्तई' दौहित्रीत्यर्थः पित्रादीनां (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पिया कासवगोत्तणं) पिता, कीदृशः? नामानि सू.१०९ काश्यपः गोत्रेण कृत्वा (तस्स णं तओ नामधिजा) तस्य त्रीणि नामधेयानि ( एवमाहिजंति ) एवं आख्यायन्ते (तंजहा-सिद्धत्थे इ वा सिजंसे इ वा जसंसे इ वा) तद्यथा-सिद्धार्थ इति वा श्रेयांस इति वा यशस्वी इति वा ( समणस्स णं भागवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (माया वासिहस्सगुत्तेणं) माता | वाशिष्ठगोत्रेण (तीसे तओ नामधिज्जा) तस्याः त्रीणि नामधेयानि (एवमाहिजंति) एवं आख्यायन्ते (तंजहा-तिसला इ वा विदेहदिन्ना इ वा पीइकारिणी इ वा) तद्यथा-त्रिशला इति वा विदेहदिन्ना इति वा प्रीतिकारिणीति वा (समणस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (पित्तिजे सुपासे) पितृव्यः ‘काको' इति सुपार्श्वः (जिट्ट भाया नंदिवद्धणे) ज्येष्टो भ्राता नन्दिवर्धनः (भगिणी सुदंसणा) भगिनी सुदर्शना (भारिया जसोया कोडिण्णागुत्तेणं) भार्या यशोदा, सा कीदृशी?-कौण्डिन्या गोत्रेण (सम-18 णस्स भगवओ महावीरस्स) श्रमणस्य भगवतो महावीरस्य (धूआ कासवगोत्तणं ) पुत्री काश्यपगोत्रेण (तीसे दो नामधिजा, एवमाहिजंति ) तस्या द्वे नामधेये, एवं आख्यायेते (तंजहा-अणोजा इ वा पियदंसणा इ वा)
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy