SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या० ५ ॥८८॥ लेखशालामोचन ॥८ ॥ पुरो यद्वचसा विलासः ॥ २॥ यतः-अनध्ययनविद्वांसो, निद्रव्यपरमेश्वराः । अनलङ्कारसुभगा, पान्तु युष्मान जिनेश्वराः॥१॥ इत्यादि वदन् कृतब्राह्मणरूपस्त्वरित यत्र भगवान् तिष्ठति तत्र पण्डितगेहे समा. जगाम, आगत्य च पण्डितयोग्ये आसने भगवन्तं उपवेश्य पण्डितभनोगतान् संदेहान् पप्रच्छ, श्रीवीरोऽपि बालोऽयं किं वक्ष्यतीत्युत्कर्णेषु सकललोकेषु सर्वाणि उत्तराणि ददौ, ततो जैनेन्द्रं व्याकरणं जज्ञे, यतः-सक्को अ तस्समक्खं भगवन्तं आसणे निवेसित्ता । सस्स लक्खणं पुच्छि वागरणं अवयवा इंदं ॥१॥ सर्वे जना | विस्मयं प्रापुः-अहो बालेनापि बर्द्धमानकुमारेण एतावती विद्या कुत्राधीता ?, पण्डितोऽपि चिन्तयामास-आबा लकालादपि मामकीनान् , यान् संशयान् कोऽपि निरासयन्न । बिभेद तांस्तान्निखिलान् स एष, बालोऽपि | भोः ! पश्यत चित्रमेतत् ॥१॥ किश्च-अहो ईदृशस्य विद्याविशारदस्यापि ईदृशं गाम्भीर्य, अथवा युक्तमेवेदं ईदृशस्य महात्मनः, यतः-गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति साधुः करोत्येव ॥१॥ तथा-अंसारस्य पदार्थस्य, प्रायेणाडम्बरो महान् । न हि स्वर्णे ध्वनिस्ताग्, | याक् कांस्ये प्रजायते ॥२॥ इत्यादि चिन्तयन्तं पण्डितं शक्रः प्रोवाच-मनुष्यमात्रं शिशुरेष विप्र !, नाश|ङ्कनीयो भवता स्वचित्ते । विश्वत्रयीनायक एष वीरो, जिनेश्वरो वाङ्मयपारदृश्वा ॥ ३ ॥ इत्यादि श्रीवर्धमा-| नस्तुति निर्माय शक्रः स्वस्थानं जगाम, भगवानपि सकलज्ञातक्षत्रियपरिकलितः स्वगृहमागात्, इति श्रीले x शक्रश्च तत्समक्षं भगवन्तं आसने निवेश्य । शब्दस्य लक्षणमपृच्छत् व्याकरणं अवयवा ऐन्द्रं ॥१॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy