SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०५ 4-% आमलकीक्रीडा मिथ्यादृग् देवश्चिन्तयामास-अहो शक्रस्य प्रभुत्वाभिमानेन निरंकुशा निर्विचारा पुम्भिकापातेन नगराक्रमणमिवाश्रद्धेया च वचनचातुरी, यदिम मनुष्यकीटपरमाणु अपि इयन्तं प्रकर्ष प्रापयति, तदद्यैव तत्र गत्वा तं भीषयित्वा शक्रवचन वृथा करोमि, इति विचिन्त्य मर्त्यलोकमागत्य शिंशपांमुशलस्थूलेन लोलजिह्वायुगलेन भयङ्करफूत्कारेण क्रूरतराकारेण प्रसरत्कोपेन पृथुफटाटोपेन दीप्रमणिना महाफणिना तं क्रीडातलं आवेष्टितवान्, तद्दर्शनाच पलायितेषु सर्वेषु बालेषु मनागप्यभीतमैनीः श्रीवर्द्धमानकुमारः स्वयं तत्र गत्वा तं फणिन करेण गृहीत्वा दूरं निक्षिप्तवान्, ततः पुनः संगतैः कुमारैः कन्दुकक्रीडारसे प्रस्तुते सति स देवोऽपि कुमाररूपं विकुळ तां क्रीडां कर्तुं प्रववृते, तत्र चायं पणः-पराजितेन जितः स्वस्कन्धे आरोपणीय इति, क्षणाच्च पराजितं मया जितं वर्धमानेनेति वदन् श्रीवीरं स्कन्धे समारोप्य भगवद्भापनाय सप्ततालप्रमाणशरीरः | संजातो, भंगवानपि तत्स्वरूपं विज्ञाय वज्रकठिनया मुष्ट्या तत्पृष्ठं जघान, सोऽपि तत्प्रहारवेदनापीडितो म शक इव संकोचं प्राप, ततश्च शक्रवचनं सत्यं मन्यमानः प्रकटितवरूपः सर्व पूर्वव्यतिकरं निवेद्य भूयो भूयो निजं अपराध क्षमयित्वा स्वस्थानं जगाम स देवः, तदा च सन्तुष्टचित्तेन शक्रेण 'श्रीवीर' इति भगवतो नाम कृतं, यदु-चालत्तणेऽवि सूरो पयईए गुरुपरक्कमो भयवं । वीरुत्ति कयं नामं सकेणं तुडचित्तेणं ॥१॥ इत्यामलकीक्रीडा ॥ अथ तं मातापितरौ विज्ञौ ज्ञात्वाऽष्टवर्षमतिमोहात् । वरममितालङ्कारैरुपनयतो लेखशा. ४ चालत्येऽपि शूरः प्रकृत्या गुरुपराक्रमो भगवान् । वीर इति कृतं नाम शकेणं सुरचित्तेन ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy