________________
-
कल्प.सुबो
व्या०५
द
श्रीवीरस्य नामवयं सू. १०८ ॥८६॥
॥८६॥
-
-
-
कारण अईव अईव अभिवड्ढामो) प्रीतिसत्कारेण अतीव अतीव अभिवर्धामहे (सामंतरायाणों वसमागया य) स्वदेशसमीपवर्तिनः राजानः वश्यं-आयत्तत्वं आगताः॥ (१०६)॥
(तं जया णं अम्हं एस दारए जाए भविस्सइ) तस्मात् यदा अस्माकं एष दारको जातो भविष्यति (तया णं अम्हे एयस्म दारगस्स) तदा वयं एतस्य दारकस्य (इंम एयाणुरूवं गुण्णं गुणनिप्फण्णं) इमं एतदनुरूपं गुणेभ्यः आगतं गुणनिष्पन्नं (नामधिज्जं करिस्सामो वद्धमाणुत्ति ) एवंविधं अभिधानं करिष्यामः ' वर्द्धमान' इति (ता अम्हं अज्ज मणोरहसंपत्ती जाया) 'ता' इति सा पूर्वोत्पन्ना अस्माकं अद्य मनोरथस्य संपत्तिः जाता (तं होउ णं अम्हं कुमारे वद्धमाणे नामेणं) तस्मात् भवतु अस्माकं कुमारः 'वर्द्धमानः' नाम्ना ॥ (१०७)॥
(समणे भगवं महावीरे ) श्रमणो भगवान् महावीरः ( कासवगुत्तेणं) काश्यप इति नामकं गोत्रं यस्य स तथा (तस्स णं तओ नामधिज्जा एवमाहिजति) तस्य भगवतः त्रीणि अभिधानानि एवं आख्यायन्ते, | (तंजहा) तद्यथा-( अम्मापिउसंतिए वद्धमाणे) मातापितृसत्कं-मातापितृदत्तं 'वर्द्धमान' इति प्रथम नाम १ (सहसमुइयाए समणे) सहसमुदिता-सहभाविनी तपःकरणादिशक्तिः तया श्रमण इति द्वितीयं नाम २ (अयले भयभेरवाणं) भयभैरवयोर्विषये अचलो-निप्रकम्पः, तत्र भयं-अकस्माद्भयं विद्युदादिजातं भैरवं तु सिंहादिकं, तथा (परिसहोवसग्गाणं) परिषहा:-क्षुत्पिपासादयो द्वाविंशतिः २२
-
-
-