________________
PEAE
कल्प.सुबो-| व्या०५ ॥८५॥
दशाहिकी | मर्यादा सू.१०४ ॥८५॥
%
सुहृदादयः ज्ञातयः-सजातीयाः निजकाः-स्वकीयाः पुत्रादयः स्वजना:-पितृव्यादयः सम्बन्धिनः-पुत्रपुत्रीणां श्वशुरादयः परिजनो-दासीदासादिः (नायए खत्तिए य) ज्ञातक्षत्रियाः-श्रीऋषभदेवसजातीयास्तान | ( आमंतेइ २ त्ता) आमन्त्रयति आमन्त्र्य च (तओ पच्छा पहाया कयवलिकम्मा) ततः पश्चात् स्नातौ कृता पूजा याभ्यां तथा तौ (कयकोउअमंगलपायच्छित्ता) कृतानि कौतुकमङ्गलानि तान्येव प्रायश्चित्तानि याभ्यां तथा तो (सुद्धप्पावेसाई मंगल्लाई पवराई वत्थाई परिहिया) शुद्धानि-श्वेतानि सभाप्रवेशयोग्यानि माङ्ग- ल्यानि-उत्सवसूचकानि प्रवराणि-श्रेष्ठानि वस्त्राणि परिहितौ (अप्पमहग्याभरगालंकियसरीरा) अल्पानि|स्तोकानि बहुमूल्यानि यानि आभरणानि तैः अलङ्कृतं-शोभितं शरीरं याभ्यां तथा तौ, एवंविधौ भगव. न्मातापितरौ (भोअणवेलाए भोअणमंडवंसि) भोजनवेलायां भोजनमण्डपे (सुहासणवरगया) सुखासनवराणि गती, सुखासीनी इत्यर्थः (तेणं मित्तनाइनियगसंबंधिपरियणेणं) तेन मित्रज्ञातिनिजकर जनसम्बन्धिपरिजनेन (नाएहिं खत्तिएहिं सद्धिं ).ज्ञातजातीयैः क्षत्रियैः सार्द्ध (तं विउलं असणं पाणं खाइमं साइमें ) तद् विपुलं अशनं पानं खादिम स्वादिमं च (आसाएमाणा) आ-ईषत् स्वादयन्तौ बहु त्यजन्तौ इक्ष्वादेरिव (विसाएमाणा) विशेषेण स्वादयन्ती अल्पं त्यजन्तौ खर्जरादेरिव (परिभुजेमाणा) सर्वमपि भुजानौ अल्पं अपि अत्यजन्ती भोज्यादेरिव (परिभाएमाणा) परिभाजयन्तौ-परस्परं यच्छन्ती (एवं वा विहरंति) 'अनेन प्रकारेण भुञ्जानौ तिष्ठत इति भावः ॥ (१०४)।
%
*
*