________________
कल्प.सुबोव्या०५ ॥८४॥
स्थितिपतितायां देव
11 पूजादि
८४॥
4- 44-444
हिता जानपदा-देशलोका यत्र सा तथा तां (दसदिवसठिइवडियं करेइ) दश दिवसान् यावत् एवंविधां स्थितिपतितां-उत्सवरूपां कुलमर्यादां करोति ॥ (१०२)॥
(तए णं सिद्धत्थे राया ) ततः स सिद्धार्थो राजा (दसाहियाइ ठिइवडियाए वद्दमाणीए) दशाहिकायांदशदिवसप्रमाणायां स्थितिपतितायां वर्तमानायां (सइए अ) शतपरिमाणान् (साहस्सिए अ) सहस्रपरिमाणान् (सयसाहस्सिए अ) लक्षप्रमाणान् (जाए अ) यागान्-अर्हत्प्रतिमापूजाः, कुर्वन् कारयश्चेति शेषः, भगवन्मातापित्रोः श्रीपार्श्वनाथसन्तानीयश्रावकत्वात् यजधातोश्च देवपूजार्थत्वात् यागशब्देन प्रतिमापूजा एव ग्राह्या, अन्यस्य यज्ञस्य असम्भवात्, श्रीपार्श्वनाथसंतानीयश्रावकत्वं चानयोराचाराने प्रतिपादित (दाए अ) दायान्-पर्वदिवसादौ दानानि (भाए य ) लब्धद्रव्यविभागान् मानितद्रव्यांशान् वा (दलमाणे अ) ददत् स्वयं (दवावेमाणे अ ) दापयन् सेवकैः (सइए य साहस्सिए य सयसाहस्सिए य ) शतप्रमाणान् सहस्रप्रमाणान् लक्षप्रमाणान्; एवंविधान (लंभे पडिच्छमाणे अ पडिच्छावेमाणे य) लाभान् ‘वधामणा' इति लोके प्रतीच्छन्-स्वयं गृह्णन् प्रतिग्राहयन् सेवकादिभिः (एवं विहरइ) अनेन प्रकारेण च विहरति-आस्ते॥(१०३)॥
(तएणं समणस्स भगवओ महावीरस्स) ततः श्रमणस्य भगवतो महावीरस्य ( अम्मापियरो पढमे दिवसे)। मातापितरौ प्रथमे दिवसे (ठिइवडियं करेंति) स्थितिपतितां कुस्तः (तइए दिवसे चंदसूरदंसणियं करेंति) तृतीये दिवसे चन्द्रसूर्यदशनिकां-उत्सवविशेषं कुरुतः, तद्विधिश्चायं-जन्मदिनादिनद्वयातिक्रमे गृहस्थगुरुर