________________
कल्प.सुबोव्या० ५
करशुल्कादिवर्जनम्
॥८३॥
।। ८३ ॥
शब्दात्सविड्ढीए सबजुईए सन्चबलेणं सववाहणेणं सवसमुदएणं' इत्येतानि पदानि वाच्यानि,तेषां चायमर्थ:'सव्विड्डीए'त्ति सर्वया ऋद्ध्या युक्त इति गम्यं, एवं सर्वेष्वपि विशेषणेषु वाच्यं,सर्वया युक्त्या-उचितवस्तुसंयोगेन | आभरणादिद्युत्या वा सर्वेण बलेन-सैन्येन सर्वेण वाहनेन-शिबिकातुरगादिना सर्वेण समुदयेन-परिवारादि| समूहेन एवं यावत्शब्दसूचित अभिधाय ततः 'सव्वोरोहेणं' इत्यादि वाच्यं, तत्र 'सव्वोरोहेणंति' सर्वावरोधेन, सर्वेण अन्तःपुरेणेत्यर्थः ( सव्वपुप्फगंधवत्थमल्लालंकारविभूसाए) सर्वया पुष्पगन्धवस्त्रमाल्यालङ्काराणां विभूषया युक्तः (सव्वतुडियसद्दनिनाएणं) सर्ववादित्राणि तेषां शब्दो निनादः-प्रतिरवश्च तेन युक्तः (महया इड्ढीए) महत्या ऋद्धया-छत्रादिरूपया युक्तः (महया जुईए ) महत्या युक्त्या-उचिताडम्बरेण युक्तः (महया | बलेणं) महता बलेन-चतुरङ्गसैन्येन युक्तः (महया वाहणेणं) महता वाहनेन-शिबिकादिना युक्तः (महया समुदएणं) महता समुदयेन-स्वकीयपरिवारादिसमृहेन युक्तः (महया वरतुडियजमगसमगप्पवाइएणं) महत्-विस्तीर्ण यत् वराणां-अधानानां त्रुटितानां-वादित्राणां जमगसमग-युगपत् प्रवादितं-शब्दस्तेन, तथा (संखपणवभेरिझल्लरिखरमुहिहडुक्कमुरजमुइंगदुदुंहिनिग्घोसनाइयरवेणं) शङ्कः प्रतीतः पणवो-मृत्पटहः भेरी|ढक्का झल्लरी प्रतीता खरमुखी-काहला हुडुक्का-तिवलितुल्यो वाद्यविशेषः मुरुजो-मद्देलः मृदंग:-मृन्मयः स | एव दुन्दुभि:-देववाद्य एतेषां यो नि?षो-महाशब्दो नादितं च-प्रतिशब्दस्तदूपी यो रवस्तेन, एवंरूपया सकलसामग्या युक्तः सिद्धार्थों राजा दश दिवसान् यावत् स्थितिपतितां-कुलमर्यादा महोत्सवरूपां करो