SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ मानवृध्द्यादिसू.१०० कचवरापनयनेन उपलिप्तं छगणादिना ततः कर्मधारयः, पुनः किंवि०? (सिंघाडगतिअचाकचचरचउम्मुहमहापहपहेसु) शृङ्गाटकं-त्रिकोणं स्थानं त्रिक-मार्गत्रयसंगमः चतुष्क-मार्गचतुष्टयसङ्गमः चत्वरं-अनेकमा र्गसङ्गमः चतुर्मुख-देवकुलादि महापन्था-राजमार्गः पन्थान:-सामान्यमार्गाः एतेषु स्थानेषु (सित्तत्ति) |सिक्तानि जलेन, अत एव (सुइत्ति) शुचीनि-पवित्राणि (संमट्ठति) संमृष्टानि-कचवरापनयनेन समीकृतानि (रत्यंतरावणवीहिय ) रथ्यान्तराणि-मागमध्यानि तथा आपणवीथयश्च-हमार्गा यस्मिन् तत्तथा, पुन: किंवि० ? ( मंचाइमंचकलिअं) मञ्चा-महोत्सवविलोककजनानां उपवेशननिमित्त मालकाः अतिमञ्चका:-तेषां अपि उपरि कृता मालकास्तैः कलितं, पुनः किंवि० ? (नाणाविहरागभूसिअझयपडागमंडिअं) नानाविधै | रागैर्विभूषिता ये ध्वजाः-सिंहादिरूपोपलक्षिता बृहत्पटाः पताकाश्च-लव्यस्ताभिर्मन्डित-विभूषितं, पुनः किंवि० ? (लाउल्लोइअमहियं ) छगणादिना भूमौ लेपनं सेटिकादिना भिज्यादौ धवलीकरणं ताभ्यां महितं | इव-पूजितं इव, पुनः किंवि० ? (गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं) गोशीर्ष-चंदनविशेषः तथा सरसं यत् रक्तचन्दनं तथा दर्दरनामपर्वतजातं चन्दनं तैः दत्ताः पञ्चाङ्गुलितला-हस्तकाः कुड्यादिषु यत्र | तत्तथा, पुनः किंवि० ? ( उवचियचंदणकलसं) उपनिहिता गृहान्तश्चतुष्केषु चन्दनकलशाः यत्र तत्तथा (चंदणघडसुकयतोरणपडिदुवारदेसभार्ग) चन्दनघटैः सुकृतानि-रमणीयानि तोरणानि च प्रतिद्वारदेशभाग-द्वारस्य द्वारस्य देशभागे यस्मिन् तत्तथा, पुनः किंवि० ? (आसत्तोसत्तविपुलववरघारियमल्लदामक CAREERS
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy