________________
हिरण्यादिदृष्टिःसू.९८
वही! णमोऽत्थु ते अरहओ। शक्रोऽथ जिनमानीय, विमुच्याम्बान्तिके ततः । संजहार प्रतीबिम्बावस्वापिन्यो स्वशक्तितः ॥ ४३ ॥ कुण्डले क्षौमयुग्मं चोच्छीर्षे मुक्त्वा हरिय॑धात् । श्रीदामरत्नदामाद्यमुल्लोचे स्वर्णकन्दुकम् ॥ ४४ ॥ द्वात्रिंशद्रत्नरैरूप्यकोटिवृष्टिं विरच्य सः। बाढमाघोषयामासे, सुरैरित्याभियोगिकैः ॥ ४५ ॥ स्वामिनः स्वामिमातुश्च, करिष्यत्यशुभं मनः। सप्तधाय॑मञ्जरीव, शिरस्तस्य स्फुटिष्यति ॥ ४६॥ स्वाम्यङ्गुष्ठेऽमृतं न्यस्येत्यह जन्मोत्सवं सुराः । नन्दीश्वरेऽष्टाहिकांच, कृत्वा जग्मुर्यथाऽऽगतम् ॥ ५७ ॥ इति देवकृतः श्रीमहावीरजन्मोत्सवः ॥ अस्मिन्नवसरे राज्ञे, दासी नाम्ना प्रियंवदा । तं पुत्रजननोदन्तं, गत्वा शीघ्रं न्यवेदयत् ॥ १॥ सिद्धार्थोऽपि तदाकर्ण्य, प्रमोदभरमेदुरः। हर्षगद्गदगी रोमोद्गमदन्तुरभूघनः ॥ २॥ विना किरीटं तस्यै खां, सर्वाङ्गालङ्कति ददौ । तां धौतमस्तकां चक्रे, दासत्वापगमाय सः ॥ ३ ॥
(जं रयणिं च णं समणे भगवं महावीरे जाए ) यस्यां च रजन्यां श्रमणो भगवान् महावीरो जातः (तं | रयणिं च णं) तस्यां रजन्या (बहवे वेसमणकुंडधारि) बहवः वैश्रमणस्य आज्ञाधारिणः (तिरियजंभगा देवा) एवंविधाः तियग्जृम्भका देवाः ( सिद्धत्थरायभवणंसि) सिद्धार्थराजमन्दिरे (हिरण्णवासं च) रूप्यवृष्टिं च (सुवण्णवासं च) सुवर्णवृष्टिं च ( वयरवासं च) वज्राणि-हीरकाः तेषां वृष्टिं च (वत्थवास च) वस्त्राणां वृष्टिं च (आभरणवाच) आभरणवृष्टिं च (पत्तवासं च ) पत्राणि नागवल्लीप्रमुखाणां तेषां वृष्टिं च (पुप्फवासं च ) पुष्पाणां वृष्टि च (फलवासं च ) फलानि-नालिकेरादीनि तेषां वृष्टिं च (बीयवासं
4444811