________________
कल्प. सुबो
व्या० ५
॥ ७९ ॥
हस्तिस्थं, दूरे स्वीयं गजं कुरु । हनिष्यत्यन्यथा नूनं, दुर्द्धरो मम केशरी ॥ ९॥ वाजिस्थं कासरारूढो, गरुस्थो हि सर्पगम् । छागस्थं चित्रकस्थोऽथ वदत्येवं तदादरात् ॥ १० ॥ सुराणां कोटिकेाटीभिर्विमानैर्वा हनैर्घनैः । विस्तीर्णोऽपि नभोमार्गोऽतिसंकीर्णोऽभवत्तदा ॥ ११ ॥ मित्रं केऽपि परित्यज्य, दक्षत्वेनाग्रतो ययुः । प्रतीक्षस्व क्षणं भ्रातर्मामत्रेत्यपरोऽवदत् ॥ १२ ॥ केचिद्वदन्ति भो देवाः, संकीर्णाः पर्ववासराः । भवन्त्येवंविधा नूनं, तस्मान्मौनं विधत्त भोः ॥ १३ ॥ नभस्यागच्छतां तेषां शीर्षे चन्द्रकरैः स्थितैः । शोभन्ते निर्जरास्तत्र, सजरा इव केवलम् ॥ १४ ॥ मस्तके घटिकाकाराः, कंठे ग्रैवेयकोपमाः । स्वेदविन्दुसमा देहे, सुराणां तारका बभुः ।। १५ ।। नन्दीश्वरे विमानानि, संक्षिप्याऽऽगाव सुराधिपः । जिनेन्द्रं च जिनाम्यां च त्रिः प्रादक्षिणयत्ततः ॥ १६ ॥ वन्दित्वा च नमस्थित्वेत्येवं देवेश्वरोऽवदत् । नमोऽस्तु ते रत्नकुक्षिधारिके ! विश्वदीपिके ! ॥ १७ ॥ अहं शक्रोऽस्मि देवेन्द्रः, कल्पादाद्यादिहागमम् । प्रभोरन्तिमदेवस्य करिष्ये जननोत्सवम् ॥ १८ ॥ भेतव्यं देवि ! तन्नैवेत्युक्त्वाऽवस्वापिनीं ददौ । कृत्वा जिनप्रतिबिम्बं जिनाम्बासन्निधौ न्यधात् ॥ १९ ॥ भगवन्तं तीर्थकरं, गृहीत्वा करसम्पुटे । विचक्रे पञ्चधा रूपं, सर्वश्रयोऽधिकः स्वयम् ॥ २० ॥ एको गृहीततीर्थेश, पार्श्वे दौ चात्तचामरौ । एको गृहीतातपत्रः, एको वज्रधरः पुनः ॥ २१ ॥ अग्रगः पृष्ठगं स्तोति, पृष्ठस्थोऽप्यग्रगं पुनः । नेत्रे पश्चात् समीहन्ते, केचनाग्रेतनाः सुराः ॥ २२ ॥ शक्रः सुमेरुशृङ्गस्थं गत्वाऽथो पाण्डुकं वनम् । मेरुचूलां दक्षिणेनातिपाण्डुकम्बलासने ॥ २३ ॥ कृत्वोत्सङ्गे जिनं पूर्वाभिमुखोऽसौ निषीदति । समस्ता अपि देवेन्द्राः,
देवकृतो जन्मोत्सवः ॥ ७९ ॥