SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ दिक्षु स्थिता जगुः ॥ १८ ॥ एताश्च - सामानिकानां प्रत्येकं चत्वारिंशच्छतैर्युताः । महत्तराभिः प्रत्येकं, तथा चतसृभिर्युतः । १९ ॥ अङ्गरक्षैः षोडशभिः सहस्रैः सप्तभिस्तथा । कटकैस्तदधीशैश्च, सुरैश्चान्यैर्महर्द्धिभिः || २० || आभियोगिकदेव कृतै यो जनप्रमाणैर्विमानैः अत्रायान्तीति दिक्कुमारिकामहोत्सवः ॥ ततः सिंहासनं शार्क, चचालाचलनिश्चलम् । प्रयुज्याथावधिं ज्ञात्वा, जन्मान्तिमजिनेशितुः ॥ १ ॥ वज्येकयोजनां घण्टां, सुघोषां नैगमेषिणा । अवादयत्ततो घण्टारेणुः सर्वविमानगा ॥ २ ॥ शक्रादेश ततः सोबैः, सुरेभ्योऽज्ञापयत्स्वयम् । तेन प्रमुदिता देवाश्वलनोपक्रमं व्यधुः ॥ ३ ॥ पालकाख्यामरकृतं, लक्षयोजनसंमितम् । विमानं पालकं नामाऽध्यारोहत् त्रिदशेश्वरः ||४|| पालकविमाने इन्द्रसिंहासनस्य अग्रे अग्रमहिषीणां अष्टौ भद्रासनानि, वामतश्चतुरशीतिसहस्रसामानिकसुराणां तावन्ति भद्रासनानि, दक्षिणतो द्वादशसहस्राभ्यन्तरपार्षदानां तावन्ति भद्रासनानि चतुर्दशसहस्रमध्यमपार्षदानां तावन्त्येव भद्रासनानि, एवं षोडशसहस्र वाह्य पार्षदानामपि षोडशसहस्रभद्रासनानि पृष्ठतः सप्तानीकाधिपतीनां सप्त भद्रासनानि चतसृषु दिक्षु प्रत्येकं चतुरशीतिसहस्रात्मरक्षकदेवानां चतुरशीतिसहस्रभद्रासनानि, तथा अन्यैरपि धनैर्देवैर्वृतः सिंहासन स्थितः । गीयमानगु गोचालीदपरेऽपि सुरास्ततः ||५|| देवेन्द्रशासनात् केचित् केचिन्मित्रानुवर्त्तनात् । पत्नीभिः प्रेरिताः केचित्, | केचिदात्मीयभावतः ||६|| केऽपि कौतुकतः केऽपि, विस्मयात् केऽपि भक्तितः । चेरेवं सुराः सर्वे, विविधैर्वाहनैर्युताः ||७|| विविधस्तूर्यनिर्घोषैर्घण्टानां कणितैरपि । कोलाहलेन देवानां शब्दाद्वैतं तदाऽजनि ८ ॥सिंहस्थो वक्ति दिक्कुमारीकृतीजन्मोत्सवः
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy