________________
कल्प.सुबोव्या० ४ ॥ ७७॥
श्रीवीरस्य जन्म सू.
।। ७७॥
किंवि. ? (विसुद्धासु ) विशुद्धासु, दिग्दाहाद्यभावात्, (जइएसु सव्वसउणेसु) सर्वेषु शकुनेषु-काकोलूकदुर्गादिषु जयिकेषु-जयकारकेषु सत्सु (पयाहिणाणुकूलंसि) प्रदक्षिणे प्रदक्षिणावर्तत्वात् अनुकूले-सुरभिशीतत्वात् सुखप्रदे (भूमिसप्पंसि ) मृदुत्वात् भूमिसर्पिणि, प्रचण्डो हि वायः उच्चैः सर्पति, एवंविधे ( मारुअसि ) मारुते-वायौ ( पवायंसि) प्रवातुं आरब्धे सति (निप्फण्णमेहणीयंसि कालंसि ) निष्पन्ना, कोऽर्थः ?निष्पन्नसर्वशस्या, मेदिनी यत्र एवंविधे काले सति (पमुइअपकीलिएसु जणवएसु) प्रमुदितेषु सुभिक्षादिना 2 | प्रक्रीडितेषु-प्रक्रीडितुं आरब्धेषु वसन्तोत्सवादिना, एवंविधेषु जनपदेषु-जनपदवासिषु लोकेषु सत्सु (पुव्वरत्तावरत्तकालसमयंसि ) पूर्वरात्रापररात्रकालसमये ( हत्थुत्तराहिं नक्वत्तेणं चंदेणं जोगमुवागएणं) उत्तरफाल्गुनीभिः समं योगं उपागते चन्द्रे सति (आरोग्गाऽऽरोग्गं) आरोग्या-आबाधारहिता सा त्रिशला आरोग्यआबाधारहितं (दारयं पयाया) दारकं-पुत्रं प्रजाता-सुषुवे इति भावः ॥ (९६)॥
AGRADECECARS
इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्यभुजिष्योपाध्यायश्रीविनयगणिविरचितायां
कल्पमुबोधिकायां चतुर्थः क्षणः समाप्तः ग्रन्थाग्रम् ४६९ । चतुर्णामपि व्याख्यानानाम् ग्रन्थानम् ॥ २५७५ ॥ JINNIm] [I] |Nim Timi |II ] [I] [I ] [ ifi] [MINI OIMI] | II |
ImTECITI