________________
RA%-
ENGE
गर्भपोषणम् सू.९५
भूमीए) मनोऽनुकूलया-मनःप्रमोददायिन्या विधया विहारभूम्या-चमणासनादिभूम्या कृत्वा, अथः सा त्रिशला किंविशिष्टा मती तं गर्भ परिवहति ? ( पसत्यदोहला) प्रशस्ता दोहदा-गर्भप्रभावोद्भूता मनोरथा यस्याः मा तथा, ते चैवं-जानाम्पमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून् परिपूजयामि । तीर्थेश्वरार्चनमहं रचयामि सधे, वात्सल्यमुत्सवभृतं बहुधा करोमि ॥१॥ सिंहासने समुपविश्य वरातपत्रा, संवीज्यमानकरणा सितचामराभ्यां । आज्ञेश्वरत्वमुदिताऽनुभवामि सम्यग , भूपालमौलिमणिलालितपादपीठा ॥ २॥ आरुह्य कुञ्जरशिरः प्रचलस्पताका, वादित्रनादपरिपूरितदिगविभागा । लोकः स्तुता जयजयेतिरवैः प्रमोदादुद्यानकेलिमनवां कलयामि जाने ॥ ३॥ इत्यादि, पुनः मा किंवि०१ (संपुन्नदोहला ) सम्पूर्णदोहदा, सिद्धार्थराजेन सर्वमनोरथपुरणात्, अत एव (सम्माणियदोहला) सन्मानितदोहदा, पूर्गीकृत्य तेषां निवर्तितत्वात , तत एव ( अविमाणिअदोहला) अविमानितदोहदा, कस्यापि दोहदस्य अवगणनः| भावात् , पुनः किंवि० ? (वुच्छिन्नदोहला) व्युच्छिन्नदोहदा पूर्णवाञ्छित वात, अत एव ( ववणीयदोहला) व्यपनीतदोहदा, सर्वथा अमद्दोहदा (सुहंसुहेणं) सुखंसुखेन-गर्भानाबाधया ( आसइ) आश्रयति-आश्रयणीयं स्तम्भादिकं अवलम्बते ( सयइ) शेते-निद्रां करोति (चिट्ठइ ) तिष्ठति-ऊर्ध्व तिष्ठति (निसीयइ) | निषीदति-आसने उपविशति (तुअइ) त्वग्वतयति-निद्रां विना शय्यायां शेते इत्यर्थः (विहरइ ) विह
ALANCE-
-
-
-
-
-