SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो त्रिशला व्या०४ विलापः ॥७२॥ ॥७२॥ अथ किं कुर्षे कच वा गच्छामि वदामि कस्य वा पुरतः। दुर्दैवेन च दग्धा मुग्धा जग्धाऽधमेन पुनः ॥ ८ ॥ किं राज्येनाप्यमुना किंवा कृत्रिमसुखविषयजन्यैः । किं वा दुकूलशय्याशयनोद्भवशर्महर्येण ? ॥९॥ गजवृषभादिस्वप्नः सूचितमुचितं शुचिं त्रिजगदय॑म् । त्रिभुवनजनासपत्नं विना जनानन्दि सुतरत्नम् ॥ १०॥ युग्मम् ॥ धिक संसारमसारं धिग् दुःखव्याप्तविषयसुखलेशान् । मधुलिप्तखड्गधारालेहनतुलितानहो ललितान् ॥ ११ ॥ यद्वा मयका किञ्चित्तथाविधं दुष्कृतं कृतं कर्म । पूर्वभवे यद् ऋषिभिः प्रोक्तमिदं धर्मशास्त्रेषु ॥ १२ ॥ पसुपविखमाणुसाणं वाले जोऽवि हु विओअए पावो । सो अणवच्चो जायइ अह जायइ तो विवजिजा ॥ १३ ॥ तत् पटुका मया किं त्यक्ता वा त्याजिता अधमबुध्या। लघुवत्सानां मात्रा समं वियोगः कृतः किं वा ॥१४॥ | तेषां दुग्धापायोऽकारि मया कारितोऽथवा लोके । किं वा सबालकोन्दुरबिलानि परिपूरितानि जलैः ? ॥ १४ ॥ किं वा साण्डशिशून्यपि खगनीडानि अपातितानि भुवि । पिकशुककुकुटकादेर्वालवियोगोऽथवा विहितः ॥ १६ ॥ किं वा बालकहत्याऽकारि सपत्नीसुताद्युपरि दुष्टम् । चिन्तितमचिन्त्यमपि वा कृतानि किं कार्मणादीनि ? ॥ १७॥ किंवा गर्भस्तम्भनशातनपातनमुखं मया चक्रे । तनमन्त्रभेषजान्यपि किं वा मयका प्रयुक्तानि? ॥ १८ ॥ अथवा भवान्तरे किं मया कृतं शीलखण्डनं बहुशः। यदिदं दुःखं तस्माद्विना न सम्भवति HASHA २ पशुपक्षिमानुषाणां बालान् योऽपि च वियोजयति पापः । सोऽनपत्यो जायते. अथ जायते ततो विपद्येत ॥ १ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy