SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ 4 4- Ac नामसंकल्पोङ्गवः सू. ८९ ci कोशेन-भाण्डागारेण (कोडागारेणं) कोष्ठागारेण-धान्यगृहेण ( पुरेणं) नगरेण (अंतेउरेणं) अन्तःपुरेण| प्रतीतेन ( जणवएणं) जानपदेन-देशवासिलोकेन (जसवाएणं वढित्था) यशोवादेन-साधुवादेन च अवदर्धत (विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं ) विपुलं-विस्तीर्ण धनं-गवादिकं | कनकं घटिताघटितप्रकाराभ्यां द्विविधं रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्ताद्याः मौक्तिकानि-प्रतीतानि शङ्का-दक्षिणावर्ताः शिला-राजपट्टादिकाः प्रवालानि-विद्रुमाणि रक्तरत्नानि-पद्मरागादीनि आदिशब्दावस्त्रकम्बलादिपरिग्रहस्तेन, तथा (संतसारसावइज्जेणं) सत्-विद्यमानं,न स्विन्द्रजालादिवत्स्वरूपतोऽविद्यमानं, एवंविधं यत् सारस्वापतेयं-प्रधानद्रव्यं तेन, तथा (पीइसक्कारसमुदएणं) प्रीतिः-मानसी तुष्टिः सत्कारोवस्त्रादिभिः स्वजनकृता भक्तिस्तत्समुदयेन च तज् ज्ञातकुलं ( अईव अईव अभिवढित्था ) अतीव अतीव अभ्यवर्द्धत, (तए णं समणस्स भगवओ महावीरस्स) ततः श्रमणस्य भगवतो महावीरस्य (अम्मापिऊणं) मातापित्रोः ( अयमेयारूवे अब्भत्थिए जाव संकप्पे समुप्पज्जित्था) अयं एतद्रूपः आत्मविषयः यावत् संकल्पः समुदपद्यत ॥ (८९) ॥ कोऽसौ ? इत्याह-(जप्पभिई च णं ) यतः प्रभृति ( अम्हं एस दारए कुच्छिसि | गब्भत्ताए वकते ) अस्माकं एष दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभिहं च णं) ततः प्रभृति (अम्हे हिरपणेणं वड्ढामो) वयं हिरण्येन वर्धामहे ( सुवण्णेणं बड्ढामो) सुवर्णेन वर्धामहे (धणेणं धन्नेणं जाव संतसारसावइजेणं ) धनेन धान्येन यावत् विद्यमानसारस्वापतेयेन (पीइसक्कारेणं अईव अईव अभिवड्ढामो) प्रीति %CAS
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy