SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ RSS AKHKARKits40% है मुखानि-यत्र जलस्थलपथावुभावपि भवतः पत्तनानि-जलस्थलमार्गयोरन्यतरेण मार्गेण युक्तानि आश्रमाः तीर्थस्थानानि तापसस्थानानि वा संवाहाः-समभूमौ कृषि कृत्वा कृषीवला यत्र धान्यं रक्षार्थ स्थापयन्ति निधानससन्निवेशा:-सार्थकटकादीनां उत्तरणस्थानानि एतेषां द्वन्द्वः तेषु, तथा (सिंघाडएसु वा) शृङ्गाटकेषु-शृङ्गा- क्रमामू.८८ टकफलाकारत्रिकोणस्थानेषु वा (तिएसु वा) त्रिकेषु-मार्गत्रयमिलनस्थानेषु वा (चउक्केसु वा) चतुष्केघु-मार्गचतुष्टयमिलनस्थानेषु वा (चच्चरेसु वा) चत्वरेषु-बहुमार्गमिलनस्थानेषु वा (चउम्मुहेसु वा) चतुर्मुखेषु-देवकुलच्छत्रिकादिषु वा ( महापहेसु वा) महापथेषु--राजमार्गेषु वा, तथा (गामट्ठाणेसु वा ) ग्रामस्थानानि-उद्वसग्रामस्थानानि तेषु वा (नगरहाणेसु वा ) उद्बसवगरस्थानानि तेषु वा (गामनिद्धमणेसु वा) ग्रामसम्बन्धीनि निर्धमनानि-जलनिर्गमाः 'खाल' इति प्रसिद्धास्तेषु (नगरनिद्धमणेसु वा ) एवं नगरनिर्धमनेषु वा (आवणेसु वा) आपणा-हट्टास्तेषु ( देवकुलेसु वा) देवकुलानि-यक्षाद्यायतनानि तेषु (मभासु वा) सभासु-जनोपवेशनस्थानेषु (पवासु वा ) प्रपासु-पानीयशालासु (आरामेप्नु वा ) आरामेषु-कदल्याद्याच्छादितेषु स्त्रीपुंमयोः क्रीडास्थानेषु ( उजाणेसु वा ) उद्यानेषु-पुष्पफलोपेतवृक्षशोभितेषु, बहुजनभोग्येषु । उद्यानिकास्थानेषु इत्यर्थः (वणेसु वा) वनेषु-एकजातीयवृक्षसमुदायेषु ( वणसंडेसु वा) वनखण्डेषु-अनेकजातीयोत्तमवृक्षसमुदायेषु (सुसाणसुन्नागारगिरिकंदरत्ति) श्मशानं शून्यागारं-शून्यगृहं गिरिकन्दरा-प्रतीता पर्वतगुहेत्यर्थः ( संतिसेलोवट्ठाणभवणगिहेसु वा ) अत्र गृहशब्दः प्रत्येक योज्यः, ततः शान्तिगृहाः-शान्ति
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy