SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ कल्प, सुबोध्या० ४ निधानसंक्रमःम,८८ ॥ ६९॥ SARALAB (तंसि रायकुलंसि साहरिए ) तस्मिन् राजकुले संहृतः (तप्पभिई च णं) ततः प्रभृति-तस्माद्दिनादारभ्य | (घहवे वेसमणकुंडधारिणो) बहवः वैश्रमणो-धनदः तस्य कुण्डः-आयत्तता तस्य धारिणः अर्थात् वैश्रमणा| यत्ताः ( तिरियजंभगा देवा ) तिर्यग्लोकवासिनो जृम्भकजातीयाः तिर्गग्ज़म्भकाः उच्यन्ते, एवंविधाः देवाः (समवयणेणं) शक्रवचनेन, शक्रेण वैश्रमणाय उक्तं वैश्रमणेन तिर्यग्जम्भकेभ्य इति भावः ( से जाई इमाई ) 'से'त्ति अथशब्दार्थे, अथ ते तिर्यग्जृम्भका देवाः यानि इमानि वक्ष्यमाणस्वरूपाणि (पुरा पोराणाई) पुरा-पूर्व निक्षिप्तानि अत एव पुराणानि-चिरन्तनानि (महानिहाणाइं भवंति) महानिधानानि | भवन्ति (तंजहा) तद्यथा, तानि कीदृशानि?-(पहीणसामिआई) प्रहीणस्वामिकानि-अन्पीभूतस्वामिकानीत्यर्थः, अत एव (पहीणसेउआई) प्रहीणसेक्तृकानि, सेक्ता हि उपरि धनक्षेप्ता, स तु स्वाम्येव भवति, पुन: किंवि०? (पहीणसेउआई) येषां महानिधानानां धनिकसम्बन्धीनि गोत्राणि अगाराणि च प्रही| णानि-विरलीभूतानि भवन्ति तानि प्रहीणगोत्रागाराणि, एवं (उच्छिन्नसामिआई ) उच्छिन्नः-सर्वथा अभावं प्राप्तः स्वामी येषां तानि उच्छिन्नस्वामिकानि ( उच्छिन्नसेउआई) उच्छिन्नसेक्तृकाणि ( उच्छिन्नगोनागाराई) उच्छिन्नगोत्रागाराणि, अथ केषु केषु स्थानेषु तानि वर्तन्ते ? इत्याह (गामागरनगरखेडकब्बडमडंवदोणमुहपट्टणासमसंबाहसंनिवेसेसु) ग्रामा:-करवन्तः आकरा:-लोहाद्युत्पत्तिभूमयः नगराणि-कररहितानि खेटानि-धूलिपाकारोपेतानि कर्बटानि-कुनगराणि मडम्बानि सर्वतोऽर्धयोजनात्परतोऽवस्थितग्रामाणि द्रोण 6425**HARAHARAHA
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy