SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ४ ॥ ६८ ॥ एतत् भोः पाठकाः ! ( पडिच्छियमेयं देवाणुप्पि ! ) युष्मन्मुखात् पतदेव गृहीतं एतद् भोः पाठकाः ! (इच्छियपडिच्छियमेयं देवाणुप्पिया ! ) वाञ्छितं सत् पुनः पुनर्वाञ्छितं एतद् भोः पाठकाः ! ( सच्चे णं एस अट्ठे ) सत्यः एषोऽर्थः ( से जहेयं तुभे वयहत्तिकट्टु ) येन प्रकारेण इमं अर्थ यूयं वदध इति उक्त्वा (ते सुमि सम्मं पडिच्छइ ) तान स्वप्नान् सम्यक् प्रतीच्छति ( पडिच्छित्ता ) तथा कृत्वा ( ते सुमिणलक्खणपाढए) तान् स्वप्नलक्षणपाठकान् (विउलेणं असणेणं) विपुलेन अशनेन - शाल्यादिना (पुप्फवत्थगंध मल्लालकारेण ) पुष्पैः - अग्रथितर्जात्यादिपुष्पैः वस्त्रैः प्रतीतैः गन्धैः- वासचूर्णः माल्यैः- ग्रथितपुष्पैः अलङ्कारैः -मुकु· टादिभिः ( सकारेह सम्माणेह ) सत्कारयति सन्मानयति च विनयवचनप्रतिपत्त्या (सक्कारित्ता सम्माणि - ता) सत्कार्य सन्मान्य च ( विउलं जीवियारिहं पीइदाणं दलइ ) विपुलं जीविका - आजन्म निर्वाहयोग्यं प्रीतिदानं ददाति ( दलित्ता पडिविसज्जेइ ) प्रीतिदानं दत्त्वा च प्रतिविसर्जयति ॥ ( ८२ ) ॥ (तए णं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः ( सीहासणाओ अन्मुट्ठेह ) सिंहासनात् अभ्युत्तिष्ठति ( अन्भुट्ठित्ता) अभ्युत्थाय ( जेणेव तिसला खत्तियाणी) यत्रैव त्रिशला क्षत्रियाणी ( जवणियंतरिया ) यवनिकान्तरिता ( तेणेव उवागच्छइ) तत्रैव उपागच्छति ( उवागाच्छित्ता ) उपागत्य च ( तिसलं खत्तियाणि) त्रिशलां क्षत्रियाणों ( एवं वयासी) एवं अवादीत् ॥ ( ८३ ) | ( एवं खलु देवाणुप्पिए ! ) एवं खलु हे त्रिशले ! (सुमिणसत्यंसि बायालीसं सुमिणा ) स्वप्नशास्त्रे द्विचत्वारिंशत् स्वप्नाः (तीसं महासुमिणा ) त्रिंशत् महा गमनं स्वमतत्फलश्रा वणं प्रतीच्छनं सू. ८२-८७ ॥ ६८ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy