SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबोव्या०४ ॥६७॥ चतुर्दशस्वमफलम् सू. ७९ ॥ ६७॥ A%ECRECARRAKAR पूर्णानि च पश्चेन्द्रियाणि यत्र एवंविधं शरीरं यस्य स तथा तं (लक्खणवंजणगुणोववेयं ) लक्षणव्यञ्जनानां |गुणैरुपपेतं (माणुम्माणपमाणपडिपुन्नसुजायसवंगसुंदरंग) मानोन्मानप्रमाणः प्रतिपूर्णानि सुजातानि च सर्वाङ्गानि यत्र एवंविधं सुन्दरं अङ्गं यस्य स तथा तं (ससिसोमागारं) चन्द्रवत् सौम्याकारं (कंतं) | वल्लभं (पियदसणं) प्रियं दर्शनं यस्य स तथा तं (सुरूवं ) सुरूपं (दारयं पयाहिसि ) एवंविधं दारकं-पुत्रं प्रजनिष्यति ॥ (७८)॥ | (सेऽवि य णं दारए) सोऽपि च दारकः ( उम्मुक्कबालभावे) उन्मुक्तबालभावः (विण्णायपरिणयमित्ते) विज्ञानं परिपक्वं यस्य स तथा तं (जोव्वणगमणुप्पत्ते) यौवनावस्थामनुप्राप्तः सन् (सूरे वीरे विकंते) |दानादिषु शूरः सङ्ग्रामे वीरः परमण्डलाक्रमणसमर्थः (विच्छिण्णविपुलबलवाहणे) विस्तीर्णविपुले बलवा-| हने यस्य स तथा तं (चाउरंतचक्कवही रज्जवई राया भविस्सइ) चतुरन्तस्वामी एवंविधश्चक्रवर्ती राज्यस्वामी राजा भविष्यति (जिणे वा.तिलुकनायगे धम्मवरचाउरंतचक्कवटी) जिनो वा त्रैलोक्यनायको धर्मवरचातुरन्तचक्रवर्ती, तत्र जिनत्वे चतुर्दशानां अपि स्वमानां पृथक् पृथक् फलानि इमानि-चतुईन्तहस्तिदर्शनाचतुर्धा धर्म कथयिष्यति १ वृषभदर्शनाद् भरतक्षेत्रे बोधिबीजं वप्स्यति २ सिंहदर्शनात् मदनादिदुर्गजभज्यमानं भव्यवनं रक्षिष्यति ३ लक्ष्मीदर्शनाद् वार्षिकदानं दत्त्वा तीर्थकरलक्ष्मी भोक्ष्यते ४ दामदर्शनात् त्रिभुवनस्य * 'मस्तकधार्यो भविष्यति ५ चन्द्रदर्शनात् कुयलये मुदं दास्यति ६ सूर्यदर्शनाद्भामण्डलभूषितो भविष्यति ७
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy