SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कल्प.सुबो खमपाठकागमः सू. ६७ ॥६२॥ व्या० ॥६२॥ बलिकर्म-पूजा यैस्ते, पुनः किंवि०१ (कयकोउयमंगलपायच्छित्ता) कौतुकानि-तिलकानि मङ्गलानि-दधि. दूर्वाक्षतादीनि तान्येव प्रायश्चित्तानि-दुःस्वप्नादिविध्वंसकानि कृतानि यैस्ते तथा, पुनः किंवि.? (सुद्धप्पवे| साई मंगल्लाई वत्थाई पवराई परिहिया) शुद्धानि-उज्ज्वलानि प्रवेश्यानि-राजसभाप्रवेशयोग्यानि उत्सवादिमङ्गलसूचकानि एवंविधानि प्रवरवस्त्राणि परिहितानि यैस्ते तथा, पुनः किंवि० ? (अप्पमहग्घाभरणालंकियसरीरा) अल्पानि-स्तोकानि अथ च महा_णि-बहुमूल्यानि एवंविधानि यानि आभरणानि तैः अल-13 कृतं शरीरं येषां ते तथा, पुनः किंवि०१ (सिद्धत्थयहरियालियाकयमंगलमुद्धाणा) सिद्धार्थाः-श्वेतसर्षपाः हरितालिका-दूर्वा तद् उभयं कृतं मङ्गलनिमित्तं मूर्धनि यैस्ते तथा, एवंविधाः सन्तः (सएहिं सएहिं गेहेहिंतो निग्गच्छंति) स्वकेभ्यः स्वकेभ्यो गेहेभ्यः निर्गच्छन्ति (निग्गच्छित्ता) निर्गत्य च (खत्तियकुंडग्गामं नया मज्झमज्झेणं) क्षत्रियकुंडस्य ग्रामस्य नगरस्य मध्यंमध्येन (जेणेव सिद्धत्थस्स रन्नो) यत्रैव सिद्धार्थस्य राज्ञः (भवणवरवडिंसगपडिदुवारे) भवनवरावतंसकप्रतिद्वारं, भवनवरेषु-भवनश्रेष्ठेषु अवतंसक इव-मुकुट इव भवनवरावतंसकस्तस्य प्रतिद्वारं-मूलद्वारं (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति ( उवागच्छित्ता) उपागत्य च (भवणवरवडिंसगपडिदुवारे) भवनवरावतंसकप्रतिद्वारे (एगयओ मिलंति) एकत्र मिलन्ति-सम्म-13 तीभवन्ति, सर्वसम्मतमेकं पुरस्कृत्य अन्ये तदनुयायिनो भवन्तीति तत्त्वं ॥ यतः-सर्वेऽपि यत्र नेतारः, सर्वे पण्डितमानिनः । सर्वे महत्त्वमिच्छन्ति, तद् वृन्दमवसीदति ॥१॥ दृष्टान्तश्च अत्र पञ्चशतसुभटानां, तद्यथा 45454545454545
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy