SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ काचित्सुभटानां पञ्चशती परस्परमसम्बद्धा सेवानिमित्तं कस्यचिद्राज्ञः पुरो ययौ राज्ञा च मन्त्रिवचसा परीक्षार्थ एकैव शय्या प्रेषिता, ते च सर्वेऽपि अहमिन्द्रा लघुवृद्धव्यवहाररहिताः परस्परं विवदमानाः सर्वैरपि एषा शय्या व्यापार्या इति बुद्धया शय्यां मध्ये मुक्त्वा तदभिमुखपादाः शयितवन्तः, प्रातश्च प्रच्छन्नमुक्तपुरुधैर्यथावद्व्यतिकरें निवेदिते कथं एते स्थितिरहिताः परस्परं असम्बद्धाः युद्धादि करिष्यन्तीति राज्ञा निर्भ त्यै निष्कासिता इति । ततस्ते स्वप्नपाठकाः ( एगयओ मिलित्ता) एकत्र मिलित्वा (जेणेव बाहिरिया उबट्ठा|णसाला) यत्रैव बाह्या उपस्थानशाला (जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छन्ति) तत्रैवोपागच्छन्ति ( उवागच्छित्ता ) उपागत्य ( करयलजाव अंजलिं कट्टु ) करतलाभ्यां यावत् अञ्जलिं कृत्वा (सिद्धत्थं खत्तियं ) सिद्धार्थं क्षत्रियं प्रति (जएण विजएणं वद्धाविंति ) जयेन बिजयेन त्वं वर्धस्व इत्याशीर्वादं | दत्तवन्तः, स चैवं दीर्घायुर्भव वृत्तवान् भव भव श्रीमान् यशस्वी भव, प्रज्ञावान् भव भूरिसत्वकरुणादानैकशौण्डो भव । भोगाढ्यो भव भाग्यवान् भव महासौभाग्यशाली भव, प्रौढश्रीभव कीर्त्तिमान् भव सदा विश्वोपजीव्यो भव ॥ १ ॥ अत्र किरणावलिदीपिकाकाराभ्यां कोटिंभरस्त्वं भवेति पाठो लिखितस्तत्र कोटिंभर इति प्रयोगचिन्त्यः । कल्याणमस्तु शिवमस्तु धनागमोऽस्तु, दीर्घायुरस्तु सुतजन्मसमृद्धिरस्तु । वैरिक्षयोsस्तु नरनाथ ! सदा जयोऽस्तु, युष्मत्कुले च सततं जिनभक्तिरस्तु ॥ २ ॥ (६७ ) ॥ स्वप्नपाठ कागमः सू. ६७
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy