SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ३ ॥ ६१ ॥ दितं यद्वा अस्तरजसा-निर्मलेन मृदुना-कोमलेन मसूरकेण चाकलो गादी इति जनप्रसिद्धेन आच्छादितं, पुनः किंवि० १ ( सेअवत्थपच्चुत्थुयं ) श्वेतेन वस्त्रेण प्रत्यवस्तृतं - उपरि आच्छादितं पुनः किंवि० ? ( सुमउअं ) सुतरां मृदुकं अतिकोमलं, पुनः किंवि० १ ( अंगसुहफरिसगं ) अङ्गस्य सुखः - सुखकारी स्पर्शो यस्य स तथा, अत एव (विसिद्धं ) विशिष्टं - शोभनं (तिसलाए खत्तिआणीए ) त्रिशलायै क्षत्रियाण्यै, तद्योग्यं इत्यर्थः, ईदृशं ( भद्दासणं रयावेइ ) भद्रासनं रचयति ( रयावित्ता) रचयित्वा च ( कोडुंबिअपुरिसे सहावेइ ) कौटुम्बिकपुरुषान् शब्दयति ( सहा वित्ता) शब्दयित्वा च ( एवं क्यासी) एवं अवादीत् ॥ ६४ ॥ किमित्याह ( खिप्पामेव भो देवाणुष्पिआ ! ) शीघ्रमेव भो देवानुप्रियाः - सेवकाः । स्वलक्षणपाठकान् शब्दयत, अथ किंविशिष्टान् स्वलक्षणपाठकान् ? ( अट्ठगमहानिमित्तसुत्तत्थधारए ) अष्ट अङ्गानि यत्र एवंविधं यत् महानिमित्तं निमित्तशास्त्रं भाविपदार्थ व चकस्वप्रादिफलव्युत्पादको ग्रन्थस्तस्य सूत्रार्थी धारयन्ति ये ते तथा तान्, तत्र निमित्तस्य अष्ट अङ्गानि इमानि अङ्गं १ स्वमं २ स्वरं ३ चैव, भौमं ४ व्यंजन ५ लक्षणे ६ । उत्पाद ७मन्तरिक्षं च ८, निमित्तं स्मृतमष्टधा ॥ १ ॥ तत्र पुंसां दक्षिणाङ्गे स्त्रीणां वामाङ्गे स्फुरणं सुन्दरमित्याद्यङ्गविद्या १ स्वमानां उत्तममध्यमाधमविचारः स्वमविद्या २ दुर्गादीनां स्वरपरिज्ञानं स्वरविद्या ३ भौमं - भूमिकम्पादिविज्ञानं ४ व्यञ्जनं-मपीतिलकादि ५ लक्षणं-करचरणरेखादि सामुद्रिकोक्तं ६ उत्पात - उल्कापातादिः | ७ अन्तरिक्षं ग्रहाणां उदयास्तादिपरिज्ञानम् ८ पुनः किंवि० ? ( विविहसत्थकुसले ) विविधानि यानि सिंहासने उपवेशः सू. ६३ ॥ ६१ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy