________________
R
| कीदृशानि? ( सेयवत्थपच्चुत्थुयाई) श्वेतवस्त्रेण आच्छादितानि, पुनः किंवि० ?(सिद्धत्वकयमंगलोवया| राई) सिद्धार्थ:-श्वतसर्षपैः कृतो मङ्गलनिमित्तं उपचार:-पूजा येषु तानि (रयावेइ ) रचयति (रयावित्ता) Diसिंहासने रचयित्वा च ( अप्पणो अदूरसामंते ) आत्मनो नातिदूरे नातिसमीपे इत्यर्थः यवनिका रचयतीति योजना, उपवेशः अथ किंविशिष्टां यवनिकां? (नाणामणिरयणमंडियं) नानाप्रकारैर्मणिरत्नैर्मण्डितां-शोभमानां अत एव ( अहियपिच्छणिज) अधिकं प्रेक्षणीयां-द्रष्टुं योग्यां, पुनः किंवि० ? (महग्यवरपट्टणुग्गयं) महार्धा-बहुमृल्या वरे-प्रधाने पत्तने-वस्त्ररत्नोत्पत्तिस्थाने उद्गता-निष्पन्ना, ततो विशेषणसमासस्तां, पुनः किंवि० (सहपदभत्तिसयचित्तताणं) श्लक्ष्णं यत्पदृसूत्रं तन्मयः भक्तीनां-रचनानां शतानि तैः चित्रस्तानको यस्यां सा तथा तां, पुनः किंवि० ? (इहामियउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं ) इहामृगा-वृकाः वृषभाः तुरगाः नराः मकराः विहङ्गा ब्यालका:-सर्पाः किन्नराः रुरवो-मृगभे-४ दाः शरभा-अष्टापदाः महाकायाः अटवीपशवः चमर्यो-गावः कुञ्जराः-हस्तिनः वनलताः-चम्पकलतादयः पद्मलताः प्रतीताः एतेषां या भक्तयो-रचनाः ताभिः चित्रां, एवंविधां ( अभितरिअ जवणिअं) अभ्यन्तरां यवनिका (अंछावेइ ) रचयति (अंछावित्ता) रचयित्वा भद्रासनं रचयति, अथ किंविशिष्टं भद्रासनं? (नाणामणिरयणभत्तिचित्तं ) विविधजातीयमणिरत्नानां भक्तिभी-रचनाभिश्चित्रं, पुनः किंवि० ? (अस्थरयमिउमसूरगोत्थयं) आस्तरकः प्रतीतः मृदुर्यों मसूरक-आस्तरणविशेषस्ताभ्यां अवस्तृत-आच्छा