________________
शाटिका तया लक्षितं-निर्जलीकृतं अझं-शरीरं यस्य स तथा, पुनः कीदृशो राजा (अहयसुमहग्घदूसरयणसुसंवुडे) अहतं-अव्यङ्गं सुमहाघ-बहुमूल्यं ईदृशं यत् दृष्यरत्न-वस्त्ररत्नं तेन सुष्टु संवृतः, परिहितदृष्यरत्न
Biमज्जनादि
ला सू.६२ इत्यर्थः, पुनः किंवि० १ ( सरससुरभिगोसीसचंदणाणुलित्तगत्ते) सरसेन सुरभिणा च गोशीर्षचन्दनेन अनु. लिप्तं गात्रं यस्य स तथा, पुनः किंवि० ? ( सुइमालावन्नगविलेवणे) तत्र माला-पुष्पमाला वर्णकविलेपनं च| मण्डनकारि कुङ्कुमादिविलेपनं तत् उभयं शुचि-पवित्रं यस्य स तथा, पुनः किंवि• ? (आविद्धमणिसुवन्ने)
आविद्धानि-परिहितानि मणिसुवर्णानि-लक्षणया मणिसुवर्णमयानि भूषणानि येन स तथा, पुनः किंवि.? (कप्पियहारद्धहारतिसरयत्ति ) कल्पिता-विन्यस्ता ये हारादयः, तत्र हारः-अष्टादशमरिकः अर्धहारो-नवस. रिकः त्रिसरिकं च प्रतीतं, तथा (पालंबपलंबमाणत्ति) प्रलम्बमानः प्रलम्बो-झुम्बनकं (कडिसुत्तत्ति) कटिसूत्रं चकव्याभरणं एतैः कृत्वा (सुकयसोहे) सुष्टु कृता शोभा यस्य स तथा, पुनः किंवि०? (पिणद्धविजे) पिनद्धानि-परिहितानि अवेयानि-ग्रीवाभरणानि येन स तथा, पुनः किंवि० ? (अंगुलिजगललियकयाभरणे) अङ्गलीयकानि-अङ्गगुल्याभरणानि ललितानि यानि कचाभरणानि-केशमण्डनानि पुष्पादीनि यस्य स तथा, पुनः किंवि० ? (वरकडगतुडिअभिअभुए ) वरैः-प्रधानैः कटकैः-वलयः त्रुटिकैश्च-वाह्वाभरणैः स्तम्भिती इव मुजौ। यस्य स तथा, पुनः किंवि० ? (अहिअरूवसस्सिरीए ) अधिकरूपेण सश्रीको यः स तथा, पुनः किंवि० ? (कुंडलुजोइआणणे) कुण्डलाभ्यामुद्योतितमाननं-मुखं यस्य स तथा, पुनः किंवि० ? (मउडदित्तसिरए)