________________
अट्टनशालागमादि
एवंविधैः पुरुषैः संवाहितः सन् अपगतपरिश्रमो जात इति योगः, अथ किंविशिष्टः पुरुषैः?, (निउणेहि ) निपुणैः-उपायविचक्षणः, पुनः किंवि०? ( पडिपुन्नपाणिपायसुकुमालकोमलतलेहिं ) प्रतिपूर्णस्य पाणिपादस्य सुकुमालकोमलानि-अत्यन्तकोमलानि तलानि येषां ते तथा तेः, अत्र किरणावलीकारेण दीपिकाकारेण च प्रतिपूर्णानां पाणिपादानां इति प्रयोगो लिखितः स तु चिन्त्यः, 'प्राणित-गाणा' मितिसूत्रेणावश्यं हेमव्याकरणमते एकबद्भावभवनात् , पुन: किंवि०? ( अभंगणपरिमद्दणुव्वलणकरणगुणनिम्माएहिं ) अभ्यङ्गन-तैलादिना म्रक्षणं परिमर्दनं-तस्य तैलस्य मईनं उखलनं-तस्य तैलस्य यहिःकर्षणं उद्वर्तनं वा, एतेषां करणे ये गुणविशेषास्तेषु निर्मातैः-विशिष्टाभ्यासद्भिः , पुनः किंवि• ? (छेएहिं ) छेकैः-अवसरऔः, पुनः किवि ? ( दक्खेहिं ) दक्षः-त्वरितत्वरितकार्यकारिभिः, पुनः किवि० ? ( पढेहिं ) प्रष्टैः- मदनकारिणां अग्रेसरै', पुनः | किंवि० ? (कुसलेहिं ) कुशलैः-विवेकिभिः, पुनः किंवि०? (मेहाविहिं) मेधाविभि:-अपूर्वविज्ञानग्रहणसमर्थैः, पुनः किंवि० ? (जिअपरिस्समेहिं) जितपरिश्रमैः-बहुपरिश्रमकरणेऽपि श्रममनाप्नुवद्भिः | (पुरिसेहिं ) एवंविधः पुरुषैः (अडिसुहाए ) अस्थ्नां सुखकारिण्या (मंसमुहाए ) मांसस्य सुखकारिण्या SI(तयासुहाए ) त्वचः सुखकारिण्या ( रोमसुहाए ) रोम्णां सुखकारिण्या ( च उब्विहाग ) इत्येवंरूपया चतु
प्रकारया (सुहपरिकम्मणाए) सुखा-सुखकारिणी परिकर्मणा-अङ्गशुश्रूषा यस्यां सा तथा एवंविधया (संवाहणाए ) सम्बाधनया-विश्रामणया (संवाहिए समाणे) संवाहितः-कृतविश्रामणः सन् ( अवगयपरि