________________
कल्प.सुबोव्या०३ ॥५७॥
अट्टनशालागमादि स. ६१ ॥ ५७॥
+
MOctor
(सयणिज्जाओ अन्भुद्वित्ता) स सिद्धार्थः शयनीयादभ्युत्थाय (पायपीढाओ पच्चोरुहइ) पादपीठात् प्रत्यवतरति ( पचोरुहित्ता) प्रत्यवतीर्य (जेणेव अदृणसाला) यत्रैव अदृनशाला-परिश्रमशाला (तेणेव उवागच्छइ) तत्रैव उपागच्छति (उवागच्छित्ता) उपागत्य च ( अट्टणसालं अणुपविसइ) अट्टनशालां अनुप्रविशति (अणुपविसित्ता) अनुप्रविश्य च (अणेगवायामत्ति ) अनेकानि व्यायामाय-परिश्रमाय (जोग्गवग्गणत्ति) योग्या-अभ्यासः 'खुरली तु श्रमो योग्याऽभ्यास'इति वचनात् वल्गनं-अन्योऽयं उपर्युपरि पतनं (वामहणत्ति) व्यामर्दनं-परस्परेण बाहाद्यङ्गमोटनं (मल्लजुद्धकरणेहिं) मल्लयुद्धानि प्रतीतानि करणानि च-अङ्गभङ्गविशेषाः मल्लशास्त्रोक्ताः एतैः कृत्वा (संते परिस्संते) श्रान्तः-सामान्येन श्रम उपगतः परिश्रान्त:सर्वाङ्गीणश्रमं प्राप्तः, एवंविधः सन् (सयपागसहस्सपागेहिं ) शतवारं नवनवौषधरसेन पक्कानि अथवा यस्य | पाके शतं सौवर्णा लगन्ति तानि शतपाकानि एवं सहस्रपाकानि एवंविधः (सुगंधवरतिल्लमाइएहिं ) सुगन्धवरतैलादिभिः, आदिशब्दात् कर्पूरपानीयादीनि ग्राह्याणि, अथ कीदृशैः तैलादिभिः? (पीणणिज्जेहिं ) प्रीणनीयैः-रसरुधिरादिधातुसमताकारिभिः (दीवणिज्जेहिं) दीपनीयैः-अग्निदीप्तिकरैः (मयणिज्जेहिं) मदनीयैः-कामवृद्धिकरैः (विहणिज्जेहिं ) बृहणीयैः-मांसपुष्टिकरैः (दप्पणिज्जेहिं ) दर्पणीयैः-बलकारिभिः (सविदियगायपल्हायणिज्जेहिं ) सर्वाणि इन्द्रियाणि गात्राणि च तेषां प्रह्लादनीयैः-आप्पायनाकारिभिः | | एतादृशैः तैलादिभिः (अन्भंगिए समाणे) अभ्यङ्गितः सन् (तिल्लचम्मंसि) तैलचर्मणि, तैलाभ्पङ्गानन्तरं
4%
%
SRCC