________________
नं सू. ६०
4CASEARCH
गादन्यभागलक्षणं एतेषां यो रागो-रक्तत्वं तथा (बंधुंजीवगत्ति) पंधुजीवकं-पुष्पविशेषः 'बपोहरीआ फुल' इति लोकप्रसिद्धं (पारावयचलणनयणत्ति) पारापतस्य चरणनयनं (परहुअसुरत्तलोअणत्ति) परभृतस्य-कोकि-1B | लस्य सुरक्त-कोपादिना रक्तीकृते ये लोचने (जासुअणकुसुमरासित्ति) जपापुष्पस्य 'जासूद' इति लोकप्रसिद्धस्य यो राशि:-समूहः तथा (हिंगुलनिअराइरेगरेहंतसरिसे ) हिंगुलनिकरश्च प्रसिद्धः, एतेभ्यः सर्ववस्तुभ्यः अतिरेकेण राजमानः मन् सदृशः, अत्र यः अतिरेकेण राजमानः स सहशः कथं भवतीत्याशङ्कायां रक्तत्वमात्रेण सदृशः कान्त्या तु अतिरेकेण राजमान इति वृद्धी, अथवा रक्ताशोकप्रकाशादीनां हिगुलनिकरान्तानां यो राजमानोऽतिरेक:-प्रकर्षस्तत्सदृश इति, पुन: किंविशिष्टे सूर्य ? (कमलायरसंडवियोहए ) कमलानां| आकरा-उत्पत्तिस्थानानि ये पद्महृदादयस्तेषु यानि खण्डानि-कमलवनानि तेषां विकाशके ( उढियंमि सूरे) | एवंविधे उत्थिते अभ्युदिते सूरे-दिनकरणशीले, सूर्ये पुनः किंवि०? (सहस्सरस्सिमि) महस्ररश्मी, पुनः किंवि०१ (दिणयरे) दिनकरे-दिनकरणशीले, पुनः किंवि० ? (तेअसा जलंते) तेजसा देदीप्यमाने (तस्स य करपहरापरद्धंमि अंधयारे) तस्य च-श्रीसूर्यस्य करमहारैः-किरणाभिधातः अन्धकारे अपराद्धे-विनाशिते सति, अथ च (बालायवकुंकुमेणं खचियव्व जीवलोए) बालातपः प्रसिद्धः स कुङ्कुममिव तेन जीवलोके-मनुष्यलोके खचिते-व्याप्ते सति, कोऽर्थः ?-यथा कुडकुमेन किश्चिद्वस्तु पिञ्जरीक्रियते तथा बालातपेन जीवलोके पिञ्जरीकृते सति (सयणिज्जाओ अन्भुढेइ ) शयनीयात् अभ्युत्तिष्ठति ॥ (६०)।