________________
कल्प. सुबो व्या० ३ ॥ ५६ ॥
(सविसेसं बाहिरियं उवद्वाणसालं ) विशेषप्रकारेण बाह्यां उपस्थानशालां ( गंधोदयसत्तं सुई ) गन्धोदकेन सिक्तां तथा शुचिं च कृत्वा ( जाव सीहासणं रयाविंति ) यावत् तत्र सिंहासनं रचयन्ति ( रयावित्ता ) रचयित्वा ( जेणेव सिद्धत्थे खत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति (उवाग(च्छित्ता ) उपागत्य ( करयल जाव मत्थए अंजलिं कट्टु ) करतलाभ्यां यावत् मस्तकें अञ्जलिं कृत्वा (सिद्धत्थस्स खत्तियस्म ) सिद्धार्थस्य क्षत्रियस्य ( तमाणत्तियं पञ्चष्पिणंति ) तां आज्ञां प्रत्यर्पयन्ति, तत्तथैव सर्व कृत्वा अस्माभिर्भवदादेशः कृत इति निवेदयंतीत्यर्थः ॥ ( ५९ ) ॥
( तए णं सिद्धस्थे वत्तिए) ततः स सिद्धार्थः क्षत्रियः (कलं पाउप्पभाए रयणीए ) कल्ये - आगामिनि दिने ' प्रादुरित्यव्ययं प्रकाशे ' ततः प्रकटप्रभातायां एवंविधायां रजन्यां जातायां सत्यां (फुल्लुप्पलकमलकोमलुम्मिलियंमि ) फुल्लं - विकसितं यत् उत्पलं - पद्मं कमलश्च - हरिणविशेषस्तयोः सुकुमाल उन्मिलितंविकसनं दलानां नयनयोश्च यस्मिन्नेवंविधे ( अहापंडुरे पभाए ) अथ - रजनीविभातानन्तरं पाण्डुरे - उज्ज्वले प्रभाते, अयमर्थः - यस्मिन्प्रभाते पद्मानां दलविकासेन विकसनं जातं हरिणानां च नयनविकासेनेति, तस्मिन् प्रभाते जाते, पूर्व रजनी विभाता, तत ईषत्प्रकाशो जातः, ततश्च पाण्डुरं-उज्ज्वलं प्रभातं जातं, ततश्च क्रमेण सूर्य उगते सति, अथ किंविशिष्टे सूर्ये ? ( रत्तासोगप्पगासत्ति ) रक्तस्य अशोकस्य यः प्रकाशः - प्रभासमूहः (किंसुअति) किंशुकं च- पलाशपुष्पं (सुअमुहत्ति) शुकमुखं - शुक चंचुपुटं (गुंज़द्धरागत्ति) गुञ्जाया अर्ध कृष्ण भा
सिंहासनरचनादि सू.
५९ उत्थानं
सू. ६० ॥ ५६ ॥