SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ भाविपुत्र वर्णनं सू. स्तेषां लाभः हे देवानुप्रिये ! (पुत्तलाभो देवाणुप्पिए !) पुत्रस्य लाभः हे देवानुप्रिये ! (सुक्खलाभो देवाणुप्पिए !) सौख्य-मनसो निवृत्तिस्तस्य लाभः हे देवानुप्रिये! ( रज्जलाभो देवाणुप्पिए ! ) राज्यं| स्वाम्यमात्यसुहृत्कोशराष्ट्रदुगसैन्यलक्षणं सप्ताङ्गं तस्य लाभो भविष्यतीति ॥ अथ सामान्येन फलान्युक्त्वा है विशेषतो मुख्यं फलमाह-(एवं खलु तुमे देवाणुप्पिए!) अनेन प्रकारेण निश्चयेन त्वं हे देवानुप्रिये! हे त्रिशले! ( नवण्हं मासाणं ) नबसु मासेषु ( बहुपडिपुन्नाणं ) बहुप्रतिपूर्णेषु सत्सु ( अट्ठमाण राइंदियाणं ) अर्धाष्टमरात्रिदिवसाधिकेषु (विइकंताणं) व्यतिक्रान्तेषु सुरूपं दारकं-पुत्रं प्रजनिष्यसीति | सम्बन्धः, किंविशिष्टं?-( अम्हं कुलकेउं ) अस्माकं कुले केतुरिव केतुः-चिंह ध्यजस्तत्सदृशं, अत्यद्भुतं इत्यर्थः ( अम्हं कुलदीव ) अस्माकं कुले दीप इव दीपस्तं, प्रकाशकं मङ्गलकारकं च (कुलपब्वयं ) कुले पर्वत इव | पर्वतः, अपराभवनीयः स्थिरश्च, कुलस्य आधार इत्यर्थः, (कुलवडिंसयं ) कुले अवतंसक इव-मुकुट इव यस्तं, शोभाकरत्वात् . अत एव (कुलतिलकं ) कुलतिलकं मस्तकधार्यत्वात् (कुलकित्तिकरं ) कुलकीत्ति-13 करं शुभाचारित्वात् (कुलवित्तिकरं ) कुलस्य वृत्तिः-निर्वाहस्तस्य कारक (कुलदिणयरं) प्रकाशकत्वात् कुले दिनकरसमानं (कुलआधारं) कुलाधारः-पृथ्वीवत् कुलस्याधारं (कुलनंदिकर) कुलस्य नन्दिः-वृद्धिस्तस्याः करं-कारकं (कुलजसकरं ) कुलस्य यश:-सर्वदिग्गामिनी ख्यातिः तस्य कारकं, 'एकदिग्गामिनी कीर्तिः, सर्वदिग्गामुकं यशः' इति वचनात् ( कुलपायवं) छायाकरत्वात् आश्रयणीयत्वाच कुले पादपसमानं,
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy