SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ३ ॥ ५३॥ विधः सन् ( ते सुमिणे ओगिण्हइ ) तान् स्वमान् अवगृह्णाति - चेतसि धरति ( ओगिन्हित्ता ) अवगृह्य च (ईहं अणुपविसइ) ईहां - सदर्थविचारणालक्षणां अनुप्रविशति (अणुपविसित्ता ) अनुप्रविश्य च ( अप्पणो साहाविएणं ) आत्मनः स्वतः उत्पन्नेन तथा ( मइपुव्वएणं ) मतिपूर्वकेण एवंविधेन ( बुद्धिविण्णाणेणं ) बुद्धिविज्ञानेन कृत्वा ( तेसिं सुमिणाणां ) तेषां स्वप्नानां ( अत्थुग्गहं करेइ ) अर्थावग्रहं - अर्थनिश्चयं करोति ( करिता ) अर्थनिश्चयं कृत्वा च (तिसलं खत्तियाणि ) त्रिशलां क्षत्रियाणीं प्रति ( ताहिं इट्ठाहिं ) ताभिः इष्टाभिः ( जाव सस्सिरीयाहिं ) यावत् सश्रीकाभिः ( वग्गूहिं संलवमाणे २) एवंविधाभिः वाग्भिः संलपन् सन् ( एवं वयासी) एवं अवादीत् (५१) ॥ किमित्याह - (उराला णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा) उदाराः - प्रशस्ताः त्वया हे देवानुप्रिये !-सरल| स्वभावे स्वप्नाः दृष्टाः (कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा दिट्ठा ) तथा कल्याणकारिणः स्वया हे देवानुप्रिये ! स्वप्ना दृष्टाः ( एवं ) अनेनाभिलापेन (सिवा धन्ना मंगल्ला ) उपद्रवहराः धनप्रापकाः मङ्गलकारकाः ( सस्सिरिया) शोभया सहिताः ( आरुग्गतुट्टिदीहाउत्ति ) नीरोगत्वं चित्तानन्दः चिरजीवित्वं (कल्लाणमंगलकारगाणं ) कल्याणं - समृद्धिः मङ्गलं-वाञ्छितप्राप्तिः एतेषां वस्तुनां कारकाः (तुमे देवाणुप्पिए ! सुमिणा दिट्ठा) त्वया हे देवानुप्रिये ! स्वप्नाः दृष्टाः । अथ तेषां स्वप्नानां महिम्ना किं भविष्यतीत्याह - (अत्थलाभो देवाणुप्पिए 1 ) अर्थो मणिकनकादिः तस्य लाभः हे देवानुप्रिये ! ( भोगलाभो देवाणुप्पिए !) भोगाः - शब्दादय मत्यादिभिरर्थनिश्वयः सू.५१ फलकथनम् सू. ५२ ॥ ५३ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy