SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कल्प. सुबो व्या० ३ ॥ ५२ ॥ तस्य वल्लभाभिः पुनः किंचि ० १ - ( कंताहि ) कान्ताभिः - सर्वदा वाञ्छिताभिः, अत एव (पियाहिं) प्रियाभिःअद्वेष्याभिः पुनः किंवि० ? - ( मणुष्णाहिं ) मनोज्ञाभिः - मनोविनोदकारिणीभिः, अत एव (मणामाहिं ) | मनोऽमाभिः - मनसा अम्यन्ते - पुनः पुनर्गम्यन्ते न तु कदापि विस्मार्यन्ते एवंविधाभिः पुनः किंवि० : - ( उरालाहिं ) उदाराभिः - सुन्दरध्वनिवर्णसंयुताभिः पुनः किंवि० ? ( कल्लाणाहिं ) कल्याणानि - समृद्ध्यस्तत्कारिणीभिः पुनः किंवि० ? - ( सिवाहिं ) शिवाभिः - उपद्रवहरीभिः तथाविधवर्णसंयुक्तत्वात्, अत एव ( धन्नाहिं ) धन्याभिः- धनप्रापिकाभिः पुनः किंवि० ? - ( मंगलाहिं ) मङ्गलकरणे प्रवीणाभिः पुनः किंवि० ? (सस्सिरीआहिं ) मश्रीकाभिः - अलङ्कारविराजिताभिः पुनः किंवि० ? ( हिअयगमणिजाहिं ) कोमलतया सुबोधतया च हृदयङ्गमाभिः पुनः किंवि० ? - ( हिअयपल्हायणिजाहिं ) हृदयप्रह्लादनीयाभिः - हृद्गतशोकावुच्छेदिकाभिः, पुनः किंवि० ? - ( मिअमहुरमंजुलाहिं ) मिताः - अल्पशब्दाः बह्वर्थाश्च मधुराः - श्रोत्रसुग्वकारिण्यः, मञ्जुला:सुललितवर्णमनोहराः, ततः पदत्रयस्य कर्मधारये मितमधुरमञ्जुलाभिरिति ( गिराहिं) एवंविधाभिः वाणीभिः (संलवमाणी २) संलपन्ती - वदन्ती ( पडिबोहेइ ) जागरयति ॥ ( ४८ ) ॥ ( तए णं ) ततोऽन्तरं जागरणानन्तरं ( सा तिमला खत्तिआणी ) सा त्रिशला क्षत्रियाणी (सिद्धत्थेणं) रण्णा) सिद्धार्थेन राज्ञा ( अन्भणुण्णाया समाणी ) अभ्यनुज्ञाता सती (नाणामणिकणगरयणभत्तिचित्तंसि ) | नानामणिकनकरत्नानां भक्तिभिः रचनाभिः चित्रे-आश्चर्यकारिणि ( महासांसि निसीयइ ) भद्रासने श्री सिद्धार्थजागरणं सू. ४८ ॥ ५२ ॥
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy