SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ 171 रिक्तं, (पिच्छ ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला इति प्रायोजितं पुनः किंवि० ? - ( माओवभोगं ) | सातस्य - सातवेदनीयस्य कर्मण उपभोगो यत्र तत् सातोपभोग, ईदृशं ( विमाणवरपुंडरीयं ) विमानवरपुण्डकं- विमान वरेषु पुण्डरीकमिव अत्युत्तमत्वात् इदं विशेष्यं १२ ॥ (४४ ) ॥ (तओ पुणो ) ततः पुनः सा त्रिशला त्रयोदशे स्वप्ने रत्ननिकरराशिं पश्यति, अथ किंविशिष्टं रत्ननिकरराशि ? - ( पुलगवेरिंदनीलत्ति ) पुलकं १ वज्रं २ इन्द्रनील - नीलरत्नं ३ ( मामग़त्ति ) सस्यकं - रत्नविशेषः ४ (कक्के अणत्ति) कर्केतनं ५ ( लोहियक्खत्ति) लोहिताक्षं ६ ( मरगयत्ति) मरकतं ७ (मसारगल्लत्ति ) मसारगलं ८ (पवालत्ति) प्रवाल (फलिहत्ति) स्फटिकं १० (सोगंधियत्ति) सौगन्धिकं ११ ( हंसगभत्ति) हंसगर्भ १२ (अंजणत्ति) अञ्जनं -अञ्जनप्रभं श्यामरत्नं १३ ( चंदप्पत्ति) चन्द्रप्रभः - चन्द्रकान्तरत्नं १४ (वररयणेहिं) एभी रत्नप्रकारैः (महिअलपट्टि ) महीतलप्रतिष्ठितं ( गगणमंडलंतं पभासयंतं ) महीतले स्थितमपि गगनमण्डलस्यान्तं यावत् प्रभासयन्तं, लोकप्रसिद्धस्य आकाशस्यापि शिखरं स्वकान्त्या शोभयन्तं इत्यर्थः पुनः किंचि० ?( तुंगं) उच्च, किंप्रमाणं ? इत्याह - ( मेरुगिरिमन्निगासं) मेरुगिरिसदृशं ( पिच्छ ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला ( रयणनिकररासिं) रत्ननिकराणां राशि:- उच्छ्रितः समूहस्तं इदं विशेष्यम् १३ ॥ (४५)|| (मिहिं च ) सिंहिं चेति पदं प्रागुक्तगाथागतं 'तओ पुणो' इत्यर्थसूचकं, (सा) ततः सा त्रिशला चतु| देशे स्वप्ने ईदृशं शिखिनं अग्निं पश्यति, अथ किंविशिष्टं शिखिनं:- (बिउलुज्जलपिंगल महुघय परिसिच्चमाणत्ति) रत्नोच्चयस्वप्रः मृ. ४५
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy