________________
विमानस्खमासू.४४
CASS 45
आवर्त्तपतितत्वेन अन्यत्र निर्गमावकाशाभावात् ऊर्ध्व उच्छलत् (पचोनियत्तत्ति) प्रत्यवनिवृत्तं-ऊध्र्व उच्छल्य तत्रैव पनः पतितं, अत एव (भममाणलोलसलिलं) तत्र आवत्तें एव भ्रमत् तत एव च लोलं-स्वभावतश्चञ्चलं, एवंविधं सलिलं-पानीयं यत्र स तथा तं, (पिच्छह) प्रेक्षते इति क्रियापदं (खीरोअसायरं) क्षीरोदसागरं इदं विशेध्यं (सरयरयणिकरसोमवयणा) शरत्कालीनः रजनीकर:-चन्द्रस्तद्वत् सौम्यं वदनं यस्याः, एवंविधा त्रिशला ११ ।। (४३) ॥
(तओ पुणो) ततः सा त्रिशला द्वादशे स्वप्ने विमानवरपुण्डरीकं प्रेक्षते, अथ किंविशिष्टं विमानवरपुंडरीकं ?-(तरुणसूरमंडलसमप्पहं ) तरुणो-नूतनो यः सूर्यस्तस्य मण्डल-बिम्बं तेन समा प्रभा-कांतिर्यस्य तत्तथा, पुनः किंवि० १ (दिप्पमाणसोहं ) दीप्यमाना शोभा यस्य तत्तथा, पुनः किंवि० ? (उत्तमकंचणमहामणिसमूहपवरतेअअट्ठसहस्सत्ति) उत्तमैः काञ्चनमहामणिसमूहैः-सुवर्णरत्नप्रकरैः प्रवरा ये अष्टाधिकसहस्रसंख्याः तेकाः-स्तम्भा तैः (दिप्पंतनहपईवं ) दीप्यमानं सत् नभ-आकाशं प्रदीपयति यत् तत् तथा, पुनः किंवि०१-(कणगपयरलंबमाणमुत्तासमुज्जलंति) कनकप्रतरेषु-सुवर्णपत्रेषु लम्बमानाभिर्मुक्ताभिः समुज्ज्वलं-प्राबल्येन दीप्तिमत् , पुनः किंवि०? (जलंतदिव्वदामंति) ज्वलन्ति-दीप्यमानानि देवसम्बन्धीनि अर्थाल्लम्बितानि दामानि-पुष्पमाल्यानि यत्र तत्तथा, पुनः किंवि०?-(इहामिगउसभतुरगत्ति) इहामृगा-वृका 'वरगडा जीव इति लोके ऋषभा-वृषभाः तुरगा-अश्वाः (नरमगरविहगत्ति) नरा-मनुष्याः मकराः विहगाः
54RASARAKAR