SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कल्प:सुबोव्या०३ ॥४९॥ क्षीरसागरः सू.४३ ॥४९ ।। RECACANARAR अतिचपला इतियावत् तथा उच्च आत्मप्रमाणं येषामेवंविधा ये कल्लोलास्तैर्लोलत्-पुनः पुनरेकीभूय पृथग्भवत् एवंविधं तोयं-पानीयं यस्य स तथा तं, पुनः किंवि०१-(पडुपवणाहयत्ति) पटुना-अमन्देन पवनेन आहता|आस्फोटिताः सन्तः अत एव (चलिअत्ति) चलिता-धावितुं प्रवृत्ताः तत एव (चवलत्ति ) चपलाः (पागडत्ति) प्रकटाः (तरंगत्ति ) एवं विधास्तरङ्गाः-कल्लोलाः तथा (रंगतभंगत्ति) रङ्गंत-इतस्ततो नृत्यन्तः एवंविधा 'भंग'त्ति कल्लोलविशेषाः तथा (खोखुब्भमाणत्ति) अतिक्षुभ्यन्त:-भयभ्रान्ता इव भ्रमन्तः (सोभंतत्ति) शोभमाना: | (निम्मलत्ति) निर्मलाः-स्वच्छाः (उकडत्ति) उत्कटाः-उद्धताः (उम्मीत्ति) ऊर्मयो-विच्छित्तिमन्तः कल्लोलाः, ततः एतैः सर्वैः पूर्वोक्तः कल्लोलप्रकारैः (सहसंबंधत्ति) सह यः सम्बन्धो-मिलनं तेन (धावमाणावनियत्तभासुरतराभिराम) धावमान:-त्वरितं तीराभिमुखं प्रसर्पन अपनिवर्तमानः-तटात् पश्चाद्वलमानः सन् भासुरतरः-अत्यन्तं दीप्रोऽत एव अभिरामो-मनोहरो यः स तथा तं, पुनः किंवि०?-(महामगरमच्छत्ति) महान्तो मकरा मत्स्याश्च प्रसिद्धाः तथा (तिमितिमिगिलनिरुद्धतिलितिलियाभिघायत्ति) तिमयः १ तिमिङ्गिलाः २ निरुद्धाः ३ तिलितिलिका ४ श्च जलचरजीवविशेषाः, अथैतेषां अभिघातेन-पुच्छाच्छोटनेन उत्पन्नः (कप्पूरफेणपसरं) कपरवदुज्ज्वल: फेनप्रसरो यस्त स तथा तं, पुनः किंवि०१-(महानईतुरियवेगसमागयभमत्ति) महत्यो नद्यो महानद्यो-गङ्गाद्यास्तासां ये त्वरितवेगा:-शीघ्रं आगमनानि तैः आगतभ्रम-उत्पन्नभ्रमणो | यो (गंगावत्तत्ति) गङ्गावर्तनामा आवर्शविशेषस्तत्र (गुप्पमाणुच्चलंतत्ति) व्याकुलीभवत् अत एव उच्छलत् )
SR No.600288
Book TitleKalpsutram
Original Sutra AuthorVinayvijay
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1939
Total Pages398
LanguageSanskrit
ClassificationManuscript, Paryushan, & agam_kalpsutra
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy