________________
श्रीदशवैकालिक
चूणी
८ आचार
प्रणिधौ
॥२७२॥
धातुकार्द्धधातुकयो ' रिति ( ७-३-८४ ) गुणः उरण् रपरः इति (१९०५१) परयमनंश्च कर्तव्यं, स्त्रीविवक्षायां 'अजाद्यतष्टापू' इति ( पा. ४-१-४) टाप् प्रत्ययः कर्त्तव्यः, ' भिक्ष मिश्रायाजलाभे लाभे च ' धातुः, 'सनासभिक्ष उ:' इति ( पा. ३-२-१६८ ) उः प्रत्ययः भिक्षु इति स्थिते ' कर्तृकरणयोस्तृतीये ति ( पा. २-३-१८) तृतीया, टकारलोपः (आङ नाऽखियाम् (पा. ७-३-१२०) इदितो नुम्धातो ' ( पा. ७-१-५८ ) रित्यनुवर्त्तमाने ' इकोऽचि विभक्ता ' विति (पा. ५-१-७३ ) नुम् मकारस्य उकारस्य च लोपः, 'रषाभ्यां नो णः समानपद ' इति ( पा. ८-४- १) अकुप्वाङ्नुम्व्यवायेऽपीति ' (पा. | ४-२ ) नकारस्य णकारः भिक्षुणा, तत् प्रातिपदिकं स्त्रीविवक्षायां 'कर्मणि द्वितीये ' ति ( पा. २-३-२ ) अम् ' त्यदाद्यत्वम् (पा. ७-२-१०२ ) अजायतष्टाप् ' ( पा. ४-१-४) अनुबन्धलोपः, त्रयाणामपि 'अकः सवर्णे दीर्घत्वं (पा. ६-१-१०१ ) ताम्, 'हृञ् हरणे' धातुः, अस्य धातोः उत्पूर्वस्य आङ्पूर्वस्य च ' भविष्यती ' त्यनुवर्त्तमाने ( ३-३-३) 'लट् शेष चे 'ति (पा. ३-३-१३) लद् प्रत्ययः, टकारस्य ' हलन्त्य ' मिति संज्ञा प्रयोजनं, टेरेत्वार्थः, लकाराट्टकारमपकृष्य अकारस्य 'उपदेशोजनुनासिक ' इति ( पा. १-३-२) संज्ञा प्रयोजनं, ' लटः सद्वेति (पा. ३-३-१४) विशेषणार्थः, लस्य तिपादयो भवतीति तिपादिप्रसङ्गे प्राप्ते 'शेषात् कर्त्तरि परस्मैपदं ' ( पा. १-३-७८ ) भवति, अस्मद्युपपदे समानाधिकरणे प्रयुज्यमाने उत्तमपुरुषो भवति, तस्य उत्तमपुरुषस्य एकस्मिन्नर्थे एकवचनमुपादीयते मिप्, पकारलोपः कर्त्तरि शपि प्राप्ते ' स्यतासी लृलुटो 'रिति ( पा. ३-१-३३ ) स्यप्रत्ययः ' आर्द्धधातुकस्येड् वलादे ' रिति (पा.७-२-३५ ) इट् प्राप्तः 'एकाच उपदेशेऽनुदातेत ' इति (पा. ७-२-१० ) प्रतिषेधः तत 'ऋद्धनोः स्ये स्य' (पा. ७-२-७० ) ति इडागमः, सार्वधातुकार्धधातुकयो ' रिति ( पा. ७-३-६४ )
आचारप्रणिधेरुपक्रमः
॥२७२ ॥