SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ H नन्दीहारिभद्रीय अवग्रहादयो भेदाः वृत्ती । ॥ ७१ ॥ ARSAUGAT SCE पर्यालोचयतो अवगन्तव्या इति । अत्राह-किमुक्तलक्षणमवग्रहादिक्रम विहाय क्वचिदपि मतिज्ञानं नोत्पद्यते येनैवं क्रम इति, अत्रोच्यते, नोत्पद्यते, तथाहि-नानवगृहीतमीह्यते, न चानीहितमवगम्यते, न चानवगतं धार्यते इत्यलं प्रसंगेन ॥ सर्वमेवेदं द्रव्यादिभिर्निरूपयन्नाह 'तं समासतो' इत्यादि।(३७-१८४)।। द्रव्यत आभिनिबोधिकज्ञानी आदेशन, आदेश:-प्रकारः, स च सामान्यतो विशेष| तश्च, तत्र द्रव्यजातिसामान्यादेशेन, द्रव्याणि-धर्मास्तिकायादीनि जानाति, विशेषतोऽपि यथा धर्मास्तिकायो धर्मास्तिकायस्य देश | इत्यादि, न पश्यति सर्वात्मना धर्मास्तिकायादीन् , शब्दादीस्तु योग्यदेशावस्थितान् पश्यत्यपि, श्रुतादेशतो वा जानाति, एवं | | क्षेत्रादिष्वपि भावनीय, नवरं तान्न पश्यत्येव, तथा चोक्तं भाष्यकारेण-"आदेसोत्ति पगारो ओहादेसेण सव्वदव्वाई । धम्मत्थि| काइयाइं जाणइ न उ सव्वभावेण ॥ १॥ खेत्तं लोगालोग कालं सव्वद्धमहव तिविधोऽवि । पंचोदइयादीए भावे ज नेयमेवतियं | ॥२॥ आदेसोत्ति व सुत्तं सुतोवलद्धेसु तस्स मतिणाणं । पसरह तब्भावणभाविणोवि सुत्ताणुसारेण ॥३॥" साम्प्रतं संग्रहगाथा उच्यते, तत्र उग्गह० गाहा ॥ (*७५-१८४) ॥ अवग्रहः प्राग्निरूपितशब्दार्थः, तथा ईहापायश्च, चशब्दः पृथगवग्रहादिस्वरूप|स्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनामीहादयः पर्याया न भवन्तीत्युक्तं भवति, समुच्चयार्थो वा, यदा समुच्चयार्थस्तदा व्यवहितो द्रष्टव्यः, धारणा च, एवकारः क्रमपरिदर्शनार्थः, एवमनेनैव क्रमेण भवन्ति चत्वार्याभिनिबोधिकज्ञानस्य भियन्त इति भेदा-विकल्पाः ASSIRSAHASRCARRIES ॥७१॥ SS
SR No.600286
Book TitleNandisutrasya Churni
Original Sutra AuthorRushabhdevji Keshrimalji Shwetambar Samstha
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1928
Total Pages238
LanguageSanskrit
ClassificationManuscript & agam_nandisutra
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy